SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सुमति अष्टादश साधु स्थानानि ०२१ श्रीदशवै० स्थानम् १७। तथा प्रत्येकं पुण्यपापमिति, मातापित्कलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं-पृथक् पृथक् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः । एवमष्टादशं स्थानम् १८। एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानं, प्रत्येकं पुण्यपापमिति पञ्चदशमं स्थानं, शेषाण्यभिधीयन्ते, तथाऽनित्यं खल्वित्यनित्यमेव नियमतो भो! इत्यामन्त्रणे मनुष्याणां-पुंसां जीवितमायुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६ । तथा बहुं च खलु भो! पापं कर्म प्रकृतं बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे, बद्धं च पापकर्म चारित्रमोहनीयादि, प्रकृतं-निर्वर्तितं मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किश्चिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७ । पावाणं चेत्यादि, पापानां च-अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च, खलु भो! कृतानां कर्मणां, खलुशब्दः कारितानुमतविशेषणार्थः, भो इति शिष्यामन्त्रणे, कृताना-मनोवाक्काययोगेरोघतो निवर्तितानां कर्मणां-ज्ञानावरणीयावसातावेदनीयादीनां प्राक्-पूर्वमन्यजन्मसु दुश्चरितानां-प्रमादकषायजदुश्चरितजनितानि, दुश्चरितानि कारणे कार्योपचारात् , दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात् , एवं दुष्पराक्रान्तानांमिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात् , दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात , इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि तु वधबन्धनादीनि, तदमीषां एवं- च खलुशब्दात संप्रत्युपेक्षितव्यातदेव विशेष्यते पन्त, २०१॥ Jain Education Intera! For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy