________________
सुमति ०
साधु० श्रीदशवे० चू० १
॥ २०२ ॥
Jain Education Internation
भूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति वाक्यशेषः, किं १, मोक्षो भवति - प्रधानपुरुषार्थो भवति, नास्त्यवेदयित्वा न भवति अननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह - इष्यते च स्वल्प कर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा - अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभ भावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः अन्यानिबन्धन परिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवद्, अन्यनिमित्तमुपक्रमेणापरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिगृहाश्रमेणेति संप्रत्युपेक्षितव्यमित्यष्टादशं पदं भवति - अष्टादशं स्थानं भवति १८ । २१ । भवति चात्र श्लोकः, अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थ संग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततश्च श्लोकजातिरनेकमेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधःजया च धम्मं, अणज्जो भोगकारणा । से तत्थ मुच्छिए वाले, आयइं नावबुज्झइ ॥ ४८२ ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं । सबधम्मपरिब्भट्ठो, स पच्छा परितप्पइ ॥ ४८३ ॥ जया अ वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुआ ठाणा, स पच्छा परितप्पड़ ॥४८४ ॥ जया अ पूइमो होइ, पच्छा होइ अपूइमो । राया व रजपब्भट्ठो, स पच्छा परितप्पइ ॥ ४८५ ॥ जया अमाणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठि व कब्बडे छूढो, स पच्छा परितप्पइ ॥ ४८६ ॥
For Private & Personal Use Only
भ्रष्टशीलस्य दोषः
गा. ४८२४८६
U॥ २०२ ॥
www.jainelibrary.org