SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सुमति साधु० श्रीदशवे० चू० १ ॥ २०० ॥ Jain Education Internat भो! इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह - गृहवासमध्ये वसतामित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनं, एतच्चिन्तनीयमित्यष्टमं स्थानम् ८ । तथा आतङ्कस्तस्य वधाय भवति, आतङ्कः - सद्योघाती विशुचिकादिरोगः से-तस्य गृहिणो धर्मबन्धुरहितस्य वधायविनाशाय भवति, तथा वधश्वाने कवधहेतुः एवं चिन्तनीयमिति नवमं स्थानम् ९ । तथा संकल्पः तस्य वधाय भवति, संकल्पः - इष्टानिष्टप्रयोग संप्रयोगप्राप्तिजो मानस आतङ्कस्तस्य गृहिणः, तथा चेष्टायोगात् मिध्याविकल्पाम्यासेन ग्रहादिप्राप्तेर्वधा भवति इत्येतच्चिन्तनीयमिति दशमं स्थानम् १० । तथा सोपक्लेशो गृहवास इति सहोपक्लेशैः सोपक्लेशो गृहिवासो - गृहाश्रमः, उपक्लेशाः - कृपिपाशुपाल्य वाणिज्याद्यनुष्ठानानुगताः पण्डितजन गर्हिताः शीतोष्ण श्रमादयः, घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेशे रहितः प्रव्रज्यापर्यायः, अनारंभी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । तथा बन्धो गृहवासः सदा तद्धेत्वनुष्ठानात्, कोशकारकीटकवत् इत्येतचिन्तनीयं इति त्रयोदशं स्थानं १३ । तथा मोक्षः पर्यायोsaatतं कर्म निगड विगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्द्दशं स्थानं १४ । अत एव सावद्यो गृहवास इति सावद्यः - सपापः प्राणातिपातमृषावादादिप्रवृत्तेरित्येतच्चिन्तनीयमिति पश्चदर्श स्थानम् १५ । एवमनवद्यः पर्याय इत्यपाप इत्यर्थः, अहिंसादिपालनात्मकत्वादेतच्चिन्तनीयमिति षोडशं स्थानम् १६ । तथा बहुसाधारणा गृहिणां कामभोगा इति, बहुसाधारणाः- चौरराजकुलादिसामान्या गृहिणां - गृहस्थानां कामभोगाः पूर्ववत्, एतश्चिन्तनीयमिति सप्तदर्श For Private & Personal Use Only अष्टादश: स्थानानि सू० २१ ॥ २०० ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy