________________
मुमति
साघु० श्रीदशवै०
अष्टादश स्थानानि सू० २१
स्थानम् २। तथा भूयश्च स्वातिबहुला मनुष्याः दुष्षमायामिति वर्त्तते एव, पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्या इति प्राणिनो, न कदाचित् विश्रम्भहेतवोऽमी, तद्रहितानां च कीदृक् सुखं ?, तथा तद्वन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति, संप्रत्युपेक्षितव्यमिति तृतीय स्थानम् ३ । पाठान्तरं वा तथा-भूयश्च सातबहुला मनुष्याः, मुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः । इति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ३। तथा इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शी भविष्यति, श्रामण्यपालनेन परीषहनिराकृते: कर्मनिर्जरणात् , संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थ स्थानम् ४। तथा ओमजणपुरस्कारमिति न्यूनजनपूजा, प्रवजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्य, अधार्मिकराजविषये च वेष्टिप्रयोक्तः खरकर्मणो नियमत एवेदमधर्मफलं, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानं, एवं सर्वत्र क्रिया योजनीया ५। तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रसच्चाचरितः सतां निन्द्यो व्याधिदुःखजनका, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवंभूतमेव चिन्तनीयमिति षष्ठं स्थानम् ६ । तथा अधोगतिःनरकतिर्यग्गतिस्तस्यां वसनं अधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प व्रजनं, एवं चिन्तनीयमिति सप्तमं स्थानम् ७। तथा दुर्लभः खलु भो! गृहिणां धर्म इति प्रमादबहुलत्वाद् दुर्लभ एव,
॥ १९९ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org