Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 235
________________ सुमति- साधु भ्रष्टशीलस्य दोषः मा.४८७. ४८९ श्रीदशवै० बा ॥२०३॥ जया अ थेरओ होइ, समइकंतजुवणो । मच्छुत्व गलं गिलित्ता, स पच्छा परितप्पइ ॥ ४८७ ॥ | जया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥ ४८८ ॥ " पुत्तदारपरीकिन्नो, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥ ४८९ ॥ जयायेति-यदा चैवमष्टादशसु व्यावर्तनकारणेषु सत्स्वपि जहाति-त्यजति धर्म-चारित्रलक्षणं, अनार्य इत्यनार्य इवानार्यो-म्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात्-शब्दादिभोगनिमित्तं स-धर्मत्यागी, तत्र-तेषु भोगेषु मूञ्छितोगृद्धो बालोऽज्ञः, आयति-आगामिकालं नावबुध्यते-न सम्यगवगच्छतीति ॥ ४८२ ॥ एतदेव दर्शयति-जया उत्ति, यदाऽवधावितोऽपसतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, इन्द्रो वेति-देवराज इव पतितःक्ष्मां-क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इतिभावः, क्षमा-भूमिः, सर्वधर्मपरिभ्रष्टः-सर्वधर्मेभ्य:-क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्ट:-सर्वतश्युतः, स पतितो भूत्वा पश्चान्मनागू मोहावसाने परितप्यते, किमिदमकार्य मयानुष्ठितमित्यनुतापं करोतीति ।। ४८३ ।। जया येति, यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवति उनिष्क्रान्तः समवन्धः तदा देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यते इति एतत्पूर्ववदेवेति ॥ ४८४ ॥ जया वेति, यदा च पूज्यो भवति वस्त्रपात्रादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितोऽपूज्यो लोकानामेव तदा राजेव राज्यपदभ्रष्टो महतो भोगाद्वियुक्तः (विप्रमुक्तः) स पश्चात्प २०३॥ Jain Education Interna For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276