Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमतिसाधु०
श्रीदश०
अ० १०
॥ १८९ ॥
Jain Education Internal
ततश्च न दोष इति ॥ ४६२ ।। तथा अनिलेति-अनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयं, न वीजयति परैः, हरितानि-शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, बीजानि - हरितफलरूपाणि व्रीह्मादीनि सदा-सर्वकालं विवर्जयेत् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचित् अप्यपुष्टालम्बनः स भिक्षुरिति ॥ ४६३ || औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वहणमिति, वधनं हननं त्रसस्थावराणां - द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौदेशिके, किंविशिष्टानां १ - पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौशिकं कृतादि, अन्यच्च सावद्यं न भुङ्क्ते, न केवलं एतत् किन्तु नापि पचति स्वयं, न पाचयत्यन्यैः, न पचन्तमनुजानाति स भिक्षुरिति ॥ ४६४ ॥ रोइत्ति, रोचयित्वा - विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह - ज्ञातपुत्रवचनं भगवन्महावीरवचनं आत्मसमान् - आत्मतुल्यान्मन्यते षडपि कायान् पृथिव्यादीन्, पञ्च चेति चशन्दोऽपिशब्दार्थः पञ्चापि स्पृशति-सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति ॥ ४६५ ।। चत्तारि वमे सया कसाए, धुवजोगी य हवेज बुद्धवयणे ।
अहणे निजायवरयणे, गिहिजोगं परिवज्जए जे स भिक्खू ॥ ४६६ ॥ सम्माद्दट्ठी सया अमूढे, अस्थि हु नाणे तवे संजमे य ।
तवसा धुण पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू ॥ ४६७ ॥
For Private & Personal Use Only
मिक्षु
स्वरूपम् गा. ४६६
४६७
1186811
www.jainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276