Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुमति. साधु श्रीदशवै
अष्टादश स्थानानि सू०२१
दर्शयिष्यामः, भो इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याह-उत्पन्नदुःखेन-सञ्जातशीतादिशारीरस्त्रीनिषधादिमानसदुःखेन संयमे-ध्यावणितस्वरूपे अरतिसमापनचित्तेनोद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यते-अवधावनोत्प्रेक्षिणा-अवधावनं-अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रवजितुकामेनेति भावः, अनवधावितेनैव-अनुत्प्रव्रजितेनैवामूनि वक्ष्यमाणलक्षणान्यष्टादश स्थानानि सम्यग्-भावसारं सुप्रत्युपेक्षितव्यानि-सुष्ट्वालोचनीयानि भवन्तीति योगः; अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति, तान्येव विशेष्यन्ते-हयरश्मिगजाङ्कुशपोतपताकाभूतानि-अश्वखलिनगजाकैशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामन्मार्गप्रवृत्तिकामानां रम्यादयो नियमनहेतवः तथा एतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात् सम्यगेव संप्रत्युपेक्षितव्यानि एवेत्यर्थः। तद्यथेत्यादि-तद्यथेत्युदाहरणोपन्यासार्थः, हंभो ! दुःषमायां दुष्पजीविन इति, हंभो-शिष्यामन्त्रणे, दुष्षमायांअधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनां अपि अनेकदुःखप्रयोगदर्शनात् , उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् १ । तथा लघव इत्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्तते, सन्तोऽपि लघवा-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः इत्वरा-अल्पकालाः गृहिणां-गृहस्थानां कामभोगा:-मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं
॥१९८
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276