________________
सुमतिसाधु श्रीदशवै० अ०९, उ०३
विनीतस्य पूजाईत्वम् गा०४४१.
४४५
॥ १७६ ॥
अवपातवान्-वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति ॥ ४४१॥ किंच- अण्णायत्ति, अज्ञातोञ्छ-परिचयाकरणेनाज्ञातः सन् भावोऽहं गृहस्थोद्धरितादि चरत्यटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तबहुमतमिति, एतदपि विशुद्धं-उद्गमादिदोषरहितं, न तद्विपरीतं, एतदपि यापनार्थ-संयमभरोद्वाहिदेहपालनाय, नान्यथा समुदानं च-उचितभिक्षालब्धं च-नित्यं-सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कदाचित्कं वा, एवंभृतमपि विभागतः, अलब्ध्वा -अनासाद्य न परिदेवयेत्-न खेदं यायात् , यथा मन्दभाग्योऽहं अशोभनो वा अयं देश इत्येवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्यते-न श्लाघां करोति सपुण्योऽई शोभनो वा अयं देश इत्येवं स पूज्य इति ॥ ४४२ ॥ किंच संथारेति, संस्तारकशय्यासन भक्तपानानि प्रतीतान्येतेष्वल्पेच्छता-अमूर्छया परिभोगः, अतिरिक्तपरिहरणं चातिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् , य एवमात्मानमभितोषयति येन वा तेन वा यापयति सन्तोषप्राधान्यरत:-सन्तोष एव प्राधान्यभावे रतः-सक्तः स पूज्य इति ॥ ४४३ ।। इन्द्रियसमाधिद्वारेण पूज्यतामाह-सक्कित्ति, शक्याः सोदुमाशयेतीदं मे भविष्यतीति प्रत्याशया, के इत्याह-कण्टका अयोमया-लोहात्मका उत्सहता नरेण-अर्थोद्यमिनेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशयनमप्यर्थलिप्सवः, न पुनर्वा कण्टकाः शक्या इति, एवं व्यवस्थिते अनाशया-फलाप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान्-खरादिवागात्मकान् कर्णसरान्-कर्णगामिनः स पूज्य इति ॥ ४४४ ॥ एतदेव स्पष्टयति-मुहुत्तेति, मुहर्त्तदुःखा-अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात् , तेऽपि ततः कायात्सूद्धराः-सुखेनेवोद्धियन्ते व्रणपरिकर्म च
॥१७६ ॥
Jain Education Internal
For Private & Personal Use Only
Twww.jainelibrary.org