Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
॥ २४ ॥
Jain Education I
निर्मन्दाक्षाः कटाक्षास्ते, कालकूटा इवोत्कटाः । व्यथयन्ति न मे वित्तं, जिनवाक्यामृतम् ॥ ९२ ॥ काकुरङ्गाः कुरङ्गाक्षि ! कुरङ्गा इव ताक्काः । शक्ताः स्प्रष्टुं नः मे जाग्रहमसिंहां मनोगुहाम् ॥ ९३ ॥ नैते ते मम्मनोलोपा, मन्मनोवृत्तिभेदिनः । शिरीषसुमनःपुञ्जः, कृपाण्याः किमु भेदकाः ? ॥ ९४ ॥ विभ्रमास्तव वामश्रु ! सरसा अपि मेघवत् । मच्चित्तः ऊपरे क्षेत्रे, न रागाङ्करपूरकाः ॥ ९५ ॥ सकामास्तव वामाक्षि ! हावा दावा इवोल्बणाः । शास्त्रसागरमग्नं मां, न तापयितुमीशते ॥ ९६ ॥ नरकान्तासुखाधायिपरकान्तापराङ्मुखे । यत्र मय्यफलारम्भा, रम्भाप्यत्र त्वकं हि का ? ॥ ९७ ॥ श्वभ्रज्वालावलीसङ्गभीरुः को भीरु ! वाञ्छति । मीनकेतनरुग्णोऽपि, परकान्तासु चेतनः ॥ ९८ ॥ क्षणमंत्र सुखं प्रेत्य, दुरन्ताः श्वश्रवेदनाः । येऽदः प्राज्ञासिषुः प्राज्ञास्ते स्मराज्ञापराः कथम् ? ॥ ९९ ॥ वरं ज्वालावलीसङ्गः, प्रविश्यान्तर्दवानलम् । नान्यस्त्रीत्रिक्लीरङ्गस्तरङ्गः श्वभ्रवारिधेः ॥ १०० ॥ यदुक्तम् - नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् १०१ सङ्गाः सन्ध्याभ्ररङ्गाभा, आयुर्वायुवदस्थिरम् । भोगाभोगास्तथा रोगा इवोद्वेगाय भामिनि ! ॥ १०२ ॥
For Private & Personal Use Only
च० प०
४
॥ २४ ॥
jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140