SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ २४ ॥ Jain Education I निर्मन्दाक्षाः कटाक्षास्ते, कालकूटा इवोत्कटाः । व्यथयन्ति न मे वित्तं, जिनवाक्यामृतम् ॥ ९२ ॥ काकुरङ्गाः कुरङ्गाक्षि ! कुरङ्गा इव ताक्काः । शक्ताः स्प्रष्टुं नः मे जाग्रहमसिंहां मनोगुहाम् ॥ ९३ ॥ नैते ते मम्मनोलोपा, मन्मनोवृत्तिभेदिनः । शिरीषसुमनःपुञ्जः, कृपाण्याः किमु भेदकाः ? ॥ ९४ ॥ विभ्रमास्तव वामश्रु ! सरसा अपि मेघवत् । मच्चित्तः ऊपरे क्षेत्रे, न रागाङ्करपूरकाः ॥ ९५ ॥ सकामास्तव वामाक्षि ! हावा दावा इवोल्बणाः । शास्त्रसागरमग्नं मां, न तापयितुमीशते ॥ ९६ ॥ नरकान्तासुखाधायिपरकान्तापराङ्मुखे । यत्र मय्यफलारम्भा, रम्भाप्यत्र त्वकं हि का ? ॥ ९७ ॥ श्वभ्रज्वालावलीसङ्गभीरुः को भीरु ! वाञ्छति । मीनकेतनरुग्णोऽपि, परकान्तासु चेतनः ॥ ९८ ॥ क्षणमंत्र सुखं प्रेत्य, दुरन्ताः श्वश्रवेदनाः । येऽदः प्राज्ञासिषुः प्राज्ञास्ते स्मराज्ञापराः कथम् ? ॥ ९९ ॥ वरं ज्वालावलीसङ्गः, प्रविश्यान्तर्दवानलम् । नान्यस्त्रीत्रिक्लीरङ्गस्तरङ्गः श्वभ्रवारिधेः ॥ १०० ॥ यदुक्तम् - नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् १०१ सङ्गाः सन्ध्याभ्ररङ्गाभा, आयुर्वायुवदस्थिरम् । भोगाभोगास्तथा रोगा इवोद्वेगाय भामिनि ! ॥ १०२ ॥ For Private & Personal Use Only च० प० ४ ॥ २४ ॥ jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy