________________
Jain Education
सदाचारानुरोद्भेदे, कादम्बिनि ! नितम्बिनि ! । वीतरागं मनः कृत्वा, वीतरागं ततः स्मर ॥ १०३ ॥ धर्मकार्ये सदाकार्ये, कोर्ये गजनिमीलिका ? । यन्नैव दैवतस्यापि प्रत्येति गलितं वयः ॥ १०४ ॥ अमृतस्यापदेशेन, सन्देशेन सुखश्रियाम् । गङ्गा धन्योपदेशेन, गतरागा जगाविति ॥ १०५ ॥ नन्द मे रागदावाग्निशमनैकनवाम्बुद ! | मोहान्धकारसंहारदिवाकर ! चिरं जय ॥ १०६ ॥ यन्न देवाङ्गनाहावैरक्षोभीः सुभटोऽसि तत् । त एव वीरा नासीराक्षिप्ताः क्षिप्तायुधा न ये ॥ १०७ ॥ सदाचारशिरोरत्न !, रत्नगर्भा त्वया मही । अहमप्यभवं पूता, धूताघा तव दर्शनात् ॥ १०८ ॥ व्यदिध्यपन्मे कामाग्निं, कुल्यातुल्यापि गीस्तव । अशीशमन्न यं नीरपूरो दूरोन्नतोऽप्यहो ॥ १०९ ॥ लोकद्वयसुखाधायिधर्मरत्नप्रदायिने । कथं स्यामनृणा तुभ्यं, दत्त्वा रत्नानि सम्प्रति ॥ ११० ॥ चिन्तारत्नं तथाप्येतद्गृहाणानुगृहाण माम् । अतिथेरातिथेयी स्याद्यत् स्वगेहानुसारतः ॥ १११ ॥ अतिनिर्बन्धतो रत्नं, धन्यो ग्रन्थौ बबन्ध तत् । स्वगुणश्रेणिभिश्चैष, हृदयं दैवसैन्धवम् ॥ ११२ ॥ १ का आर्ये । इति च्छेदः । २ गङ्गासंबन्धि ।
For Private & Personal Use Only
Jainelibrary.org