SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education गङ्गायां सत्तरङ्गायां, जलकेलिससौ व्यधात् । ग्रीष्मार्कतप्तसर्वाङ्गो, रेवायामिव सामजः ॥ ८१ ॥ विलोक्याभङ्गसौभाग्यं रूपमस्याद्भुतं तदा । गङ्गाधिष्ठायिनी देवी, कामरागातुराऽभवत् ॥ ८२ ॥ | रागातिरेकादेतस्याश्चेतस्याकुलताऽजनि । के ? हि स्मरशरासारे, दुर्निवारे सति स्थिराः ॥ ८३ ॥ प्रत्यक्षीभूय सा दिव्यरूपा मोहेन भूयसा । मोहनायाऽथ धन्यस्य, हावभावान् व्यधाइहून् ॥ ८४ ॥ अमूढलक्ष्या चिक्षेप, सा कटाक्षान् शरानिव । अजिह्मब्रह्मसन्नाहं, सोऽपि धीरो दधौ हृदि ॥ ८५ ॥ दोर्मूलत्रिवलीमध्यनाभिभ्रुकुचविभ्रमान् । व्याकोशानिव कामस्य, कोशान् साऽदीदृशन् मुहुः ॥ ८६ ॥ | हावभावाः कृतयुवमनोद्रावास्तया कृताः । धन्ये व्यर्थीभवन्ति स्म, वज्रे लोहघना इव ॥ ८७ ॥ सशृङ्गाराऽनगाराणामपि क्षोभं वितन्वती । उद्दीपनगुणां वाणीमभाणीदिति सोन्मदा ॥ ८८ ॥ कामं कामानलज्वालैस्तापितां शफरीमिव । स्वाङ्गसङ्गसुधाकुण्डे, सुभग ! क्रीडयाशु माम् ॥ ८९ ॥ गङ्गादेवीमवग्धन्यः, परनारीपराङ्मुखः । मातर्नातः परं वाच्यमेवं धर्मविरोधकृत् ॥ ९० ॥ तव वक्षोजरक्षोजविक्षोभैर्न बिभेत्यदः । मन्मनः कमनसि ब्रह्ममत्रपवित्रितम् ॥ ९१ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy