Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
कस्मिन्नच्युत्सवेऽन्येद्युः, परमानं गृहे गृहे । सस्कृणामुना दृष्टं भुज्यमानं शिशुवजैः ॥ ११० ॥ तस्याङ्गणस्थितस्यासीदंष्ट्राणां गलनं तदा । भक्ष्यकारशुनेर्यद्वद्वरभक्ष्यनिरीक्षणात् ॥ १११ ॥ सोऽवदत्स्वगृहे गत्वा, मातः ! पायसभोजनम् । घृतखण्डादिसंयुक्तं, यच्छ मे सुतवत्सले ! ॥ ११२ ॥ सा. प्राह पायसं वत्स !, कथं स्यान्निर्धनस्य ते ? । सोचे यथा तथा देहि, सदसज्ज्ञः शिशुर्न यत् ११३ बालको १ दुर्जन २ चौरो ३, वैद्यो ४ विप्रश्च ५ पुत्रिका ६ ।
अर्थी ७ नृपो तिथि ९ वैश्या १०, न विदुः सदसद्दशाः ॥ ११४ ॥
सा भृशं याचिता तेन, धनेन रहिताऽरुदत् । बालानामबलानां च गदितं रुदितं बलम् ॥ ११५ ॥ अथैयुः प्रातिवेश्मिक्यः, श्रुत्वा तद्बुदितं द्रुतम् । तद्दुः खदुःखिताश्चाख्यन्, किं रोदिषि ? वद स्वसः ! ११६ | यथास्थितमथावादीत्सा दीनवदना ततः । ताभिस्तस्यै दयाद्रीभिः, क्षीरखण्डादिकं ददे ॥ ११७ ॥ तया प्रगुणितं भोज्यं, प्राज्यमाज्यादिसंस्कृतम् । माता सुतहिताधाने, न हि तावद्विलम्बते ॥ ११८ ॥ पायसं बालकस्यास्य, पर्यवेषि तथा रयात् । दृग्दोषशङ्कया स्नेहानेहान्तरमगामि च ॥ ११९ ॥
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140