Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 124
________________ दानक० ॥ ५८ ॥ Jain Education एनसः परिपाकेन, तस्वेहोढा मृदोऽनया । शालिभद्रभगिन्याऽपि न नाशः कर्मणां यतः ॥ १४२ ॥ उक्तं चान्यैः - इतैकनवते कल्पे, शक्त्या मे पुरुषो हतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः श्रुत्वैवं जातसंवेगा, वेगाच्चारित्रमाश्रयन् । केऽपि केऽपि च सम्यक्त्वं, गृहिधर्ममथापरे ॥ १४४ ॥ सदारो धनसारोऽथ, ज्यायः पुत्रत्रयान्वितः । ऊरीचक्रे परिव्रज्यां, दूरीकृतपरिग्रहः ॥ १४५ ॥ धन्यः प्रियान्वितः श्राद्धधर्म्म कर्मनिसूदनम् । प्राप्य नत्वा मुनीन् भक्त्या, सद्म निश्छद्मधीरगात् १४६ गुरुकथितपुराणजन्मदानस्मरणपटुर्विदधविशिष्य धर्मम् । निजगुरुजनबान्धवान् स्तुवानस्तपसि रतान् व्यलसत्सुखैः स धीमान् ॥१४७॥ पुष्पिताग्रावृत्तम् धन्यस्य दातुमनसोऽसहनोपभोगाद्यद्रक्षिताः सुरवरैरपि हैमकोट्यः । | दानस्य पश्यत बुधा ! जिनकीर्त्तितानि तानि प्रकीर्णकफलानि सुखोज्क्लानि ॥१४८॥ ( वसन्ततिलका) इति श्रीतपागच्छनायकपरमगुरु श्रीसोमसुन्दरसूरिशिष्य श्रीजिनकीर्त्तिसूरिप्रज्ञोपक्रमे श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे बान्धवप्रीतिप्राम्भाववर्णनो नामाष्टमः पल्लवः ॥ ८ ॥ For Private & Personal Use Only अ० प० ॥ ५८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140