Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 137
________________ OSOBNOSAUKUSANOSI तत्पट्टे विजयन्ते श्रीसोमसुन्दरसूरयः । भाग्यं गुणाः क्रिया येषां, रेखाप्राप्तानि जाग्रति ॥ १२४ ॥ तत्पादाम्बुजभृङ्गण, सूरिश्रीजिनकीर्त्तिना। अयं धन्यकथाशाली, दानकल्पद्रुमः कृतः ॥ १२५॥ एषा सदोषाऽपि कृतिः स्वजातो, पति प्रपेदे विशदैरवाप्याम् । स्नात्वा चिरं पण्डितसिंहदेवधीदेवनद्यां श्रितशुद्धिलक्ष्मीः ॥ १२६ ॥ (इन्द्रवज्रा) । यस्यैतानि फलानि दिव्यविभवोद्दामानि शर्मापयहो, मानुष्ये भुवनागुतानि बुभुजे श्रीधन्यशालिद्वयी। देवत्वे पुनरिन्दुकुन्दविशदाः सर्वार्थसिद्धेः श्रियः, सोऽयं श्रीजिनकीर्त्तितो विजयते श्रीदानकल्पद्रुमः १२७ इति श्रीतपागच्छाधिराजश्रीपरमगुरुश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रज्ञोपक्रमे श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे श्रीधन्यशालिसर्वार्थसिद्धिप्राप्तिवर्णनो नाम नवमः पल्लवः ॥९॥ समाप्तोऽयं ग्रन्थः in Education For Private Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140