Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 107
________________ ततः स भृशमानन्दी, बन्दी विहितपारणः । व्यधत्त विद्यया रूपं, श्रेष्ठिनो धनकर्मणः ॥ ११९ ॥ तावद्वामान्तरं प्राप्ते, धनकर्मणि स द्रुतम् । तद्रूपेण गतस्तस्य, गेहे पुत्रानभाषत ॥ १२० ॥ व्यावृत्तः शकुनाभावाद्वत्सा! ग्रामान्तरादहम् । अद्राक्षं च मुनिं मार्गे, धर्ममाख्यान्तमार्हतम् ॥ १२१॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥ १२२॥ ततः शाश्वतसौख्यर्द्धिवर्धिष्णुफलशालिनः । धर्मकल्पतरोश्छाया, सेव्यतामविनश्वरी ॥ १२३॥ सापुत्राः सुत्रामवन्द्यस्य, महर्षेर्देशनामिति । सम्यग् निशम्य जातोऽहं, निर्ममत्वो धनादिषु ॥ १२४ ॥ धनानि पात्रसात्का, वत्सा ! इच्छामि शुद्धधीः । दानमेव फलं ह्येषां, विश्वानर्थप्रदायिनाम् ॥ १२५॥ इत्युक्त्वा स ददौ द्रव्यं, दीनादिभ्यो यदृच्छया। सीदन्यः स्वजनेभ्यश्च, याचकेभ्यश्च भूरिशः॥१२६॥ ववशैर्दिवसैरेवमष्टभिर्धनकोटयः । अष्ट स्पष्टमनीयन्त, कपटश्रेष्ठिना व्ययम् ॥ १२७ ॥ ग्रामान्तरं विनिर्माय, निर्मायः श्रेष्ठयपि द्रुतम् । श्रुतपूर्वी व्ययं रायामागादागारमात्मनः ॥ १२८ ॥ धनकर्मद्वयं दृष्ट्वा, दुर्जना हर्षमैयरुः । खेदं च वजनाः सर्वे, ही संसारविचित्रता ॥ १२९ ॥ RANA2-550-%258-59 For Private Personel Use Only I ww.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140