________________
ततः स भृशमानन्दी, बन्दी विहितपारणः । व्यधत्त विद्यया रूपं, श्रेष्ठिनो धनकर्मणः ॥ ११९ ॥ तावद्वामान्तरं प्राप्ते, धनकर्मणि स द्रुतम् । तद्रूपेण गतस्तस्य, गेहे पुत्रानभाषत ॥ १२० ॥ व्यावृत्तः शकुनाभावाद्वत्सा! ग्रामान्तरादहम् । अद्राक्षं च मुनिं मार्गे, धर्ममाख्यान्तमार्हतम् ॥ १२१॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥ १२२॥
ततः शाश्वतसौख्यर्द्धिवर्धिष्णुफलशालिनः । धर्मकल्पतरोश्छाया, सेव्यतामविनश्वरी ॥ १२३॥ सापुत्राः सुत्रामवन्द्यस्य, महर्षेर्देशनामिति । सम्यग् निशम्य जातोऽहं, निर्ममत्वो धनादिषु ॥ १२४ ॥
धनानि पात्रसात्का, वत्सा ! इच्छामि शुद्धधीः । दानमेव फलं ह्येषां, विश्वानर्थप्रदायिनाम् ॥ १२५॥ इत्युक्त्वा स ददौ द्रव्यं, दीनादिभ्यो यदृच्छया। सीदन्यः स्वजनेभ्यश्च, याचकेभ्यश्च भूरिशः॥१२६॥ ववशैर्दिवसैरेवमष्टभिर्धनकोटयः । अष्ट स्पष्टमनीयन्त, कपटश्रेष्ठिना व्ययम् ॥ १२७ ॥ ग्रामान्तरं विनिर्माय, निर्मायः श्रेष्ठयपि द्रुतम् । श्रुतपूर्वी व्ययं रायामागादागारमात्मनः ॥ १२८ ॥ धनकर्मद्वयं दृष्ट्वा, दुर्जना हर्षमैयरुः । खेदं च वजनाः सर्वे, ही संसारविचित्रता ॥ १२९ ॥
RANA2-550-%258-59
For Private Personel Use Only
I
ww.jainelibrary.org