SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दानक० ॥४९॥ स०प० श्रेष्ठी प्रतारयन् प्राह, श्वः प्रदास्यामि ते ध्रुवम् । भोजनं भोजनं भद्र!, याचखाद्य पुनः परम् ॥१०॥ एवमुक्ते गतः सूतः, स प्रभूतप्रमोदभाक् । द्वितीयस्मिन् दिने प्राप्तस्तथैव तमयाचत ॥ १०९ ॥ वैतालिक ! किमुत्तालः, कल्ये वैकालिकं तव । धीरो भव प्रदास्यामि, धनकर्मेत्यभाषत ॥ ११० ॥ सदा प्रत्युत्तरं सोऽदादेवमेव यदा तदा । बन्दी स मन्दीभूताशश्चिन्तयामासिवानिति ॥ १११ ॥ मितंपचः प्रपञ्चेन, केनचित् कार्यते व्ययम् । पादावर्त्तमनावर्त्य, किं कूपात्कृष्यते जलम् ? ॥ ११२ ॥ वक्रशीलः सदाचार, बलात्कारेण कार्यते । आकृष्टं ध्रियते यावद्धनुस्तावत्सुवृत्तभृत् ॥ ११३॥ ॐ अस्यापि तदुपायेन, कमलाः सफला अहम् । स्वीकृत्य कृत्यविल्कुर्वे, त्यागभोगविधानतः ॥ ११४ ॥ ध्यात्वेति धनकोटीच्छुः, कर्णमोटीसुरीगृहम् । गतः सूतः प्रतारण्या, विद्यायाः साधनाय सः ॥११५॥ विद्याराधनमाधातुं, सावधानमना व्यधात् । उपवासान् कृतव्यापत्प्रवासानेकविंशतिम् ॥ ११६ ॥ ततो मौनतपोमत्रजापहोमादिभिः स ताम् । भट्टः सन्तुष्टमनसं, ययाचे चण्डिकामिति ॥ ११७ ॥ देहि रूपपरावर्तविद्यां देहिप्रियप्रदे!। साप्येतां प्रददौ तस्मै, किं न देयं सुपर्वणाम् ? ॥ ११८॥ ॥४९॥ Jain Education International For Private Personal Use Only jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy