SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आचष्ट प्रथमः पृष्टो वृद्धिद्रव्यप्रमामिति । इभ्यादिभ्यः सदा लभ्या, सन्त्यष्टौ हेमकोटयः ॥ ९७ ॥ | अद्वितीयमतिः प्राह, धनसङ्ख्यां द्वितीयकः । सेतुभिः केतुभिर्धान्यकोष्ठागारैश्च तावतीम् ॥ ९८ ॥ तृतीयः प्राह वाहानामयुतं हस्तिनां शतम् । गोकुलानां शतं स्वामिन्नुष्ट्रा अष्टायुती तथा ॥ ९९ ॥ ततो राज्ञा धन्यबुद्धिविस्मितेन महाधनाः । विस्सृष्टा हृष्टचित्तास्ते, भग्नवादा गृहानगुः ॥ १०० ॥ अथैतत्प्रतिभाभाग्यकलाहृतहृदो ददुः । रूपलक्ष्मीवतीं लक्ष्मीवतीं धन्याय ते कनीम् ॥ १०१ ॥ इतश्चात्रैव कृष्यादिकर्मासीनमनाः सना । नामतो धनकर्मासीन्नैगमः सङ्गमः श्रियाम् ॥ १०२ ॥ न त्यागाय न भोगाय, भूयस्योऽप्यस्य संपदः । स्त्रियो नपुंसकस्येव, केवलं वेश्ममण्डनम् ॥ १०३ ॥ अन्यदा मागधः कश्चिद्वागधः कृतगीःपतिः । ययाचे धनकर्माणं, सुधारसकिरा गिरा ॥ १०४ ॥ विलम्बसे कथं दातुं ?, नायुषः प्रतिभूर्यतः । दीर्घनिद्रां दृगेवाह, निमेषमिषघूर्णनात् ॥ १०५ ॥ देहिभ्यो देहि सन्देहिस्थैर्यां मा संचिनु श्रियः । हरन्त्यऽन्ये वने पश्य, भ्रमरीसंचिंतं मधु ॥ १०६ ॥ विशीर्यन्ते कदर्यस्य, श्रियः पातालपक्रिमाः । अगाधमन्धकूपस्य, पश्य शैवलितं पयः ॥ १०७ ॥ Jain Educationtional For Private & Personal Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy