SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ दानक० 11 82 11 Jain Education यदा ददौ न तद्भागं, कनीयानकनीयसाम् । तदा मिथः श्लथस्नेहा, गेहान्तस्ते कलिं व्यधुः ॥ ८६ ॥ निर्दम्भन्यायलाभाय गतास्तेऽथ चतुष्पथम् । पाथोदाः क्षीरपाथोधिं, सलिलप्राप्तये यथा ॥ ८७ ॥ तत्राप्यप्राप्तसन्याया, उपभूपमथागमन् । भृशं विवदमानास्ते, सर्वज्ञमिव तार्किकाः ॥ ८८ ॥ तत्कलिर्न यदा भग्नश्चतुरैरपि मन्त्रिभिः । नृपाज्ञया तदा धन्यः, प्रोवाचेदममन्दधीः ॥ ८९ ॥ द्रव्यस्यांशाः समा एव, प्रदत्ता जनकेन वः । भो ! भद्रास्तातवात्सल्यं, तनयेषु समं यतः ॥ ९० ॥ यस्मिन् यस्य हि पुत्रस्य, कौशल्यं क्रमते मतेः । तस्य तत्कर्म शर्मैकहेतुः पित्रा निरूपितम् ॥ ९१ ॥ कलान्तरगतं द्रव्यं, वहिकाद्युपलक्षणात् । आद्याय सूनवे दत्तं, पण्डितः खलु तत्र सः ॥ ९२ ॥ कोष्ठागाराणि धान्यानां, क्षेत्राणि च मृदर्पणात् । तद्वाणिज्यप्रवीणाय, द्वितीयाय वितेनिरे ॥ ९३ ॥ गजाश्वगोमहिष्यादिचतुष्पदधनं ददे । तत्रैव लब्धलक्षाय, तृतीयाय तनूरुहे ॥ ९४ ॥ लघीयांस्तु वणिज्यादि, न वेत्त्यद्यापि किञ्चन । तेन रत्नहिरण्यादि, श्रेष्ठिनाऽस्मै समर्पितम् ॥ ९५ ॥ सङ्ख्यानेन च सर्वेषामष्टाष्टस्वर्णकोटयः । सुतानां ददिरे मन्ये, यदि रे मन्यते वचः ॥ ९६ ॥ कुलकम् ॥ For Private & Personal Use Only स०प० ॥ ४८ ॥ jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy