SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ तातशिक्षामुपादाय, रामकामादयः सुताः । समयं गमयन्ति स्म, कियन्तं स्नेहसिन्धवः ॥ ७५॥ पुत्रपौत्रादिसन्ताने, वर्धमानेऽथ ते कलिम् । वर्धमानं विलोक्यास्थुश्चत्वारोऽपि पृथक् पृथक् ॥ ७६ ॥ चतुर्भिरपि तैः कुम्भाः, कृष्टा हृष्टाननैर्वृतम् । बालस्यापि धनप्राप्तावालस्यादि भवेन्न यत् ॥ ७७॥ सुतस्य ज्यायसः कुम्भे, मषीभाजनकं मषी । लम्बाश्च वहिकापट्टा, लेखन्यश्चालुलोकिरे ॥ ७८ ॥ || द्वितीयस्य तनूजस्य, सेतुकेतुमहीमृदः । शुभान्तःकरणस्याथ, कुम्भान्तदृक्पथं गताः॥ ७९ ॥ करिणां करभाणां च, खराणां वाजिनामपि । तृतीयस्य घटस्यान्तर्दृष्टान्यस्थीनि भूरिशः ॥८॥ कोटयस्तपनीयस्य, तनयस्य कनीयसः । ज्योतियोतितसर्वाशाः, अष्ट दृष्टा घटान्तरे ॥ ८१॥ तान् कुम्भान् प्रेक्ष्य पौरस्त्याः, सुताः श्यामा भृशं त्रयः। असितद्वादशीरात्रेर्यामा इव विरेजिरे ॥८॥ सशातकुम्भं वीक्ष्य खं, कुम्भं तुर्योऽङ्गजोऽतुषत् । नरोन रोक्मद्रम्माणां, लाभे हृष्यति कोऽथवा ? ॥८॥ कनीयानप्यवापासौ, महत्त्वं रमया तया । अर्घ न लभते कान्त्या, तनीयानपि किं मणिः ? ॥ ८४ ॥ लोभाज्जातमनःक्षोभा, अशोभाकारिभाषिणः । वृद्धाः वर्णनिधानस्य, भागं सर्वे ययाचिरे ॥ ८५॥ JainEducation Magama For Private & Personal Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy