Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक० ॥४९॥
स०प०
श्रेष्ठी प्रतारयन् प्राह, श्वः प्रदास्यामि ते ध्रुवम् । भोजनं भोजनं भद्र!, याचखाद्य पुनः परम् ॥१०॥ एवमुक्ते गतः सूतः, स प्रभूतप्रमोदभाक् । द्वितीयस्मिन् दिने प्राप्तस्तथैव तमयाचत ॥ १०९ ॥ वैतालिक ! किमुत्तालः, कल्ये वैकालिकं तव । धीरो भव प्रदास्यामि, धनकर्मेत्यभाषत ॥ ११० ॥ सदा प्रत्युत्तरं सोऽदादेवमेव यदा तदा । बन्दी स मन्दीभूताशश्चिन्तयामासिवानिति ॥ १११ ॥ मितंपचः प्रपञ्चेन, केनचित् कार्यते व्ययम् । पादावर्त्तमनावर्त्य, किं कूपात्कृष्यते जलम् ? ॥ ११२ ॥
वक्रशीलः सदाचार, बलात्कारेण कार्यते । आकृष्टं ध्रियते यावद्धनुस्तावत्सुवृत्तभृत् ॥ ११३॥ ॐ अस्यापि तदुपायेन, कमलाः सफला अहम् । स्वीकृत्य कृत्यविल्कुर्वे, त्यागभोगविधानतः ॥ ११४ ॥
ध्यात्वेति धनकोटीच्छुः, कर्णमोटीसुरीगृहम् । गतः सूतः प्रतारण्या, विद्यायाः साधनाय सः ॥११५॥ विद्याराधनमाधातुं, सावधानमना व्यधात् । उपवासान् कृतव्यापत्प्रवासानेकविंशतिम् ॥ ११६ ॥ ततो मौनतपोमत्रजापहोमादिभिः स ताम् । भट्टः सन्तुष्टमनसं, ययाचे चण्डिकामिति ॥ ११७ ॥ देहि रूपपरावर्तविद्यां देहिप्रियप्रदे!। साप्येतां प्रददौ तस्मै, किं न देयं सुपर्वणाम् ? ॥ ११८॥
॥४९॥
Jain Education International
For Private Personal Use Only
jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140