Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 108
________________ दानक० ॥ ५० ॥ Jain Education Inte पृष्टः स्वगृहसङ्केतानपि पुत्रादिभिर्जगौ । चूडामण्यादिवेदित्वादसत्योऽपि स सत्यवत् ॥ १३० ॥ | सत्यासत्यविभागाज्ञैः, खजनैर्द्वावपि द्रुतम् । गृहान्निर्धाटितौ नित्यमकाष्ट कलहं मिथः ॥ १३१ ॥ ततो भूपसभं प्राप्तौ प्रसभं कलिकोविदौ । सत्योऽहं नायमित्यादिवादिनौ वादिनौ यथा ॥ १३२ ॥ कर्तुं विभागो नापारि, तयोः कैरपि मन्त्रिभिः । सुप्रयुक्तस्य दम्भस्य, यतो ब्रह्माऽपि नान्तकृत् ॥ १३३॥ विभागं प्रतिभाशाली, यः कश्चित्कुरुतेऽनयोः । धनकर्मसुता तस्मै, दीयते गुणमालिनी ॥ १३४ ॥ धन्यः क्ष्मापजनैस्तन्यमानामुद्धोषणामिमाम् । निषिध्य धीनिधिः शीघ्रमुपभूपमुपेयिवान् ॥ १३५ ॥ उपायज्ञः समादाय, करकं करपङ्कजे । पार्श्वे तौ स्थापयित्वा च श्रेष्ठिनौ वादिनाविव ॥ १३६ ॥ मुखेनास्य प्रविश्यान्तर्नालेन बहिरेति यः । स सत्यो नीपरः श्लिष्टमेवं धन्योऽवदत्तदा ॥ १३७ ॥ युग्मम् ॥ लघुरूपं विधायाथ, मायाश्रेष्ठी स्वविद्यया । करकान्तः प्रविश्यासौ, नालेन निरगादहिः ॥ १३८ ॥ धन्योपायात्स मायावान्, क्षमाया विभुना ततः । ज्ञातो निबध्य वध्यश्चादिष्टोऽवन्ध्यरुषा यदा ॥ १३९ ॥ १ अपरपक्षे अपरोऽधमः न सत्यतायुक् च । For Private & Personal Use Only स० प० ।। ५० ।। Cainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140