Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 113
________________ Jain Education | कीदृगेष विलोकेऽहमितिचिन्तापरां च ताम् । सोऽन्यदाध्यापयन् प्राह, काणेऽधीषे न किं पटु ॥ २२ ॥ साप्युवाच किमात्मीयं, कुष्ठं धृष्ट! न पश्यसि । सशङ्कौ तौ पटीं क्षित्वा, मिथोरूपमपश्यताम् ॥ २३ ॥ अहो सौभाग्य सर्वस्वमिति प्रेमाऽमृतप्लुतौ । हा राज्ञा वञ्चितावावामित्यन्तः खेदवितौ ॥ २४ ॥ मिथोऽनुरक्तौ तौ धात्र्या, जुष्टौ काञ्चनमालया, अन्यैरज्ञातदाम्पत्यौ, गमयामासतुर्दिनान् ॥ २५ ॥ मदादुन्मूलितालानोऽन्यदाऽनलगिरिः पुरे । महावातात्पोत इवानङ्गरः सागरेऽभ्रमत् ॥ १६ ॥ कथं भवेदसौ वश्यो, गजो मद्राज्यजीवनम् । राज्ञेत्युक्ते वत्सराजगीतेनेत्यभयोऽवदत् ॥ २७ ॥ | प्रद्योतानुज्ञया वत्सराजो वासवदत्तया । युतो वशमथानिन्ये, गीतगानेन तं गजम् ॥ २८ ॥ अभयाय पुना राजा, तुष्टचेता वरं ददौ । तथैव न्यासं तं चक्रेऽभयोऽपि प्रतिभानिधिः ॥ २९॥ गान्धर्वगोष्ठी मारेभे वनेऽन्येद्युर्मुदा नृपः । यौगन्धरायणोऽप्येत्य तदा मन्त्री मदाज्जगौ ॥ ३० ॥ यदि तां चैव तां चैव तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे, नाहं यौगन्धरायणः ॥ ३१ ॥ प्रद्योतोऽपि व्रजन् श्रुत्वा, तत् क्रुद्धः शमितोऽमुना । भावज्ञेन प्रदश्योंर्द्धमूत्रणात्स्वं ग्रहाश्रितम् ॥३२॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140