Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आचष्ट प्रथमः पृष्टो वृद्धिद्रव्यप्रमामिति । इभ्यादिभ्यः सदा लभ्या, सन्त्यष्टौ हेमकोटयः ॥ ९७ ॥ | अद्वितीयमतिः प्राह, धनसङ्ख्यां द्वितीयकः । सेतुभिः केतुभिर्धान्यकोष्ठागारैश्च तावतीम् ॥ ९८ ॥ तृतीयः प्राह वाहानामयुतं हस्तिनां शतम् । गोकुलानां शतं स्वामिन्नुष्ट्रा अष्टायुती तथा ॥ ९९ ॥ ततो राज्ञा धन्यबुद्धिविस्मितेन महाधनाः । विस्सृष्टा हृष्टचित्तास्ते, भग्नवादा गृहानगुः ॥ १०० ॥ अथैतत्प्रतिभाभाग्यकलाहृतहृदो ददुः । रूपलक्ष्मीवतीं लक्ष्मीवतीं धन्याय ते कनीम् ॥ १०१ ॥ इतश्चात्रैव कृष्यादिकर्मासीनमनाः सना । नामतो धनकर्मासीन्नैगमः सङ्गमः श्रियाम् ॥ १०२ ॥ न त्यागाय न भोगाय, भूयस्योऽप्यस्य संपदः । स्त्रियो नपुंसकस्येव, केवलं वेश्ममण्डनम् ॥ १०३ ॥ अन्यदा मागधः कश्चिद्वागधः कृतगीःपतिः । ययाचे धनकर्माणं, सुधारसकिरा गिरा ॥ १०४ ॥ विलम्बसे कथं दातुं ?, नायुषः प्रतिभूर्यतः । दीर्घनिद्रां दृगेवाह, निमेषमिषघूर्णनात् ॥ १०५ ॥ देहिभ्यो देहि सन्देहिस्थैर्यां मा संचिनु श्रियः । हरन्त्यऽन्ये वने पश्य, भ्रमरीसंचिंतं मधु ॥ १०६ ॥ विशीर्यन्ते कदर्यस्य, श्रियः पातालपक्रिमाः । अगाधमन्धकूपस्य, पश्य शैवलितं पयः ॥ १०७ ॥
Jain Educationtional
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140