Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ताम्बूलिकास्तथा पौगफलिकाः पादृकूलिकाः । कार्यासिका दौष्यिकाश्च, माणिक्यव्यवसायिनः ॥ ६२॥ सौवर्णिका गान्धिकाद्या, ये चान्ये नातिवैभवाः । सर्वे धन्यमहेभ्यस्य, ते वणिक्पुत्रतान्विताः ॥६३॥ धनं समुपजीव्याऽत्र, निर्वहन्ते यथासुखम् । तटारघट्टास्तटिनीप्रवाहस्य यथा जलम् ॥ ६४ ॥
चतुर्भिः कलापकम् ॥ येऽत्यन्तनिर्धनास्ते तु, श्रेष्ठिनोऽस्य महासरः । वेतनेन खनन्त्यत्र, स्वदारिद्र्यमिवाधुना ॥ ६५ ॥
श्रेष्ठी दत्तेऽत्र दीनारमेकं स्त्रीणामुभौ नृणाम् । द्विर्भोजनं च सर्वेषां, तैलान्नादि यथेप्सितम् ॥ ६६ ॥ |दृष्ट्वा स्वाजीविकोपायं, ततः श्रुत्वा जहर्ष सः। देवमातृकदेशस्थजनोऽम्भोदमिवोन्नतम् ॥ ६७ ॥ धनसारादयश्चनुर्वेतनेनाथ तत्सरः । जीवाः किं किं न कुर्वन्ति, दुष्पूरोदरपूर्तये? ॥ ६८॥ अन्यदा सम्मदापूर्णेस्तूर्णप्राप्तैर्जनैर्वृतम् । मत्रिसामन्तपादातहास्तिकावर्तसंयुतम् ॥ ६९ ॥ |सहर्षमागधश्रेणीप्रणीतगुणवर्णनम् । धृतसौवर्णदण्डोच्चमायूरातपवारणम् ॥ ७० ॥ उत्तप्तस्वर्णगौराङ्गं, रत्नालङ्कारभासुरम् । ज्वलदिव्यौषधिज्योतिर्जालं स्वर्णाचलं किल ॥ ७१ ॥
Join Educat
on
For Private
Personel Use Only
ww.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140