SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ताम्बूलिकास्तथा पौगफलिकाः पादृकूलिकाः । कार्यासिका दौष्यिकाश्च, माणिक्यव्यवसायिनः ॥ ६२॥ सौवर्णिका गान्धिकाद्या, ये चान्ये नातिवैभवाः । सर्वे धन्यमहेभ्यस्य, ते वणिक्पुत्रतान्विताः ॥६३॥ धनं समुपजीव्याऽत्र, निर्वहन्ते यथासुखम् । तटारघट्टास्तटिनीप्रवाहस्य यथा जलम् ॥ ६४ ॥ चतुर्भिः कलापकम् ॥ येऽत्यन्तनिर्धनास्ते तु, श्रेष्ठिनोऽस्य महासरः । वेतनेन खनन्त्यत्र, स्वदारिद्र्यमिवाधुना ॥ ६५ ॥ श्रेष्ठी दत्तेऽत्र दीनारमेकं स्त्रीणामुभौ नृणाम् । द्विर्भोजनं च सर्वेषां, तैलान्नादि यथेप्सितम् ॥ ६६ ॥ |दृष्ट्वा स्वाजीविकोपायं, ततः श्रुत्वा जहर्ष सः। देवमातृकदेशस्थजनोऽम्भोदमिवोन्नतम् ॥ ६७ ॥ धनसारादयश्चनुर्वेतनेनाथ तत्सरः । जीवाः किं किं न कुर्वन्ति, दुष्पूरोदरपूर्तये? ॥ ६८॥ अन्यदा सम्मदापूर्णेस्तूर्णप्राप्तैर्जनैर्वृतम् । मत्रिसामन्तपादातहास्तिकावर्तसंयुतम् ॥ ६९ ॥ |सहर्षमागधश्रेणीप्रणीतगुणवर्णनम् । धृतसौवर्णदण्डोच्चमायूरातपवारणम् ॥ ७० ॥ उत्तप्तस्वर्णगौराङ्गं, रत्नालङ्कारभासुरम् । ज्वलदिव्यौषधिज्योतिर्जालं स्वर्णाचलं किल ॥ ७१ ॥ Join Educat on For Private Personel Use Only ww.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy