Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
॥ ४६ ॥
Jain Educatio
गत्वाऽथ धन्यमप्राक्षीन्मृगाक्षी सोऽप्यभाषत । तदिदं विद्धि बिम्बोष्ठ ! स्फुटमोष्ठपुटं ननु ॥ ४२ ॥ पुत्री माह ततो मन्त्री, सन्धा पूर्णाऽभवत्तव । सुवाणि ! पाणिग्रहणं, कारयाणि ततोऽमुना ॥ ४३ ॥ | तयाऽनुमेने तद्वाक्यमिष्टं को वा न मन्यते । धन्यं सत्कृत्य तौ मन्त्री, पर्यणाययदुत्सवात् ॥ ४४ ॥ इतश्च नगरे तत्र, पत्रमल्लो वणिग्वरः । अभवत् प्रतिभासत्रं, द्वात्रिंशत्स्वर्णकोटिपः ॥ ४५ ॥ चत्वारस्तनयास्तस्य, सनया विनयान्विताः । रामः कामस्तथा धामः, सामनामा चतुर्थकः ॥ ४६ ॥ अभूद भूमिर्दोषाणां गुणानामेकमन्दिरम् । लक्ष्मीरिवास्य प्रत्यक्षा, नाम्ना लक्ष्मीवती सुता ॥ ४७ ॥ | पुण्यपात्रातिमात्रार्थदानयात्राविधानतः । पत्रमल्लो व्यधाजन्म, सफलं नित्यमेव सः ॥ ४८ ॥ रोगैः शरीरगैस्तस्य, सरोगैः सैरिभैरिव । चेतनाऽऽकुलिता बाढमेकदा भेकदारवत् ॥ ४९ ॥ आसन्नं मरणं मत्वा, चतुःशरणमाश्रितः । विहिताराधनः सावधानः पुत्रानथाभ्यधात् ॥ ५० ॥ पुत्राः कुत्रापि किं दृष्टं ? निःश्रीके नरि गौरवम् । कस्तूरीमपि निर्गन्धां, कस्तूरीकुरुते यतः ॥ ५१ ॥ सैकैव श्लाघ्यते लक्ष्मीः, कलक्यपि यया जनः । देवानामपि मान्यः स्यान्मृगाङ्ग इव सर्वदा ॥ ५२ ॥
tional
For Private & Personal Use Only
स० प०
19
॥ ४६ ॥
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140