SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ४६ ॥ Jain Educatio गत्वाऽथ धन्यमप्राक्षीन्मृगाक्षी सोऽप्यभाषत । तदिदं विद्धि बिम्बोष्ठ ! स्फुटमोष्ठपुटं ननु ॥ ४२ ॥ पुत्री माह ततो मन्त्री, सन्धा पूर्णाऽभवत्तव । सुवाणि ! पाणिग्रहणं, कारयाणि ततोऽमुना ॥ ४३ ॥ | तयाऽनुमेने तद्वाक्यमिष्टं को वा न मन्यते । धन्यं सत्कृत्य तौ मन्त्री, पर्यणाययदुत्सवात् ॥ ४४ ॥ इतश्च नगरे तत्र, पत्रमल्लो वणिग्वरः । अभवत् प्रतिभासत्रं, द्वात्रिंशत्स्वर्णकोटिपः ॥ ४५ ॥ चत्वारस्तनयास्तस्य, सनया विनयान्विताः । रामः कामस्तथा धामः, सामनामा चतुर्थकः ॥ ४६ ॥ अभूद भूमिर्दोषाणां गुणानामेकमन्दिरम् । लक्ष्मीरिवास्य प्रत्यक्षा, नाम्ना लक्ष्मीवती सुता ॥ ४७ ॥ | पुण्यपात्रातिमात्रार्थदानयात्राविधानतः । पत्रमल्लो व्यधाजन्म, सफलं नित्यमेव सः ॥ ४८ ॥ रोगैः शरीरगैस्तस्य, सरोगैः सैरिभैरिव । चेतनाऽऽकुलिता बाढमेकदा भेकदारवत् ॥ ४९ ॥ आसन्नं मरणं मत्वा, चतुःशरणमाश्रितः । विहिताराधनः सावधानः पुत्रानथाभ्यधात् ॥ ५० ॥ पुत्राः कुत्रापि किं दृष्टं ? निःश्रीके नरि गौरवम् । कस्तूरीमपि निर्गन्धां, कस्तूरीकुरुते यतः ॥ ५१ ॥ सैकैव श्लाघ्यते लक्ष्मीः, कलक्यपि यया जनः । देवानामपि मान्यः स्यान्मृगाङ्ग इव सर्वदा ॥ ५२ ॥ tional For Private & Personal Use Only स० प० 19 ॥ ४६ ॥ www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy