SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Educatio धर्मस्य साधनं मुख्यं श्रीरेव गृहमेधिनाम् । गीयते धान्यनिष्पत्तेः, पाथोदस्य प्रथा यथा ॥ ५३ ॥ हेतुः पुण्यस्य मन्तव्या, कमला समलाऽप्यसौ । प्रभवा किं न पद्मस्य ?, पङ्किलापि भवेदिला ॥५४॥ प्रासादप्रतिमायात्रादयो धर्माः श्रियैव हि । निष्पाद्यन्ते यथा ग्रन्था, बुध्ध्यैव विविधा बुधैः ॥ ५५ ॥ तावत्पिता हिताधायी, तावन्माताऽप्यतापिनी । तावत्प्रिया प्रियालापा, यावलक्ष्मीः स्थिरा गृहे ॥ ५६ ॥ तावत्कलाः कलाः सर्वा, हृद्या विद्यापि तावता । प्रगुणाश्च गुणास्तावद्यावल्लक्ष्मीः स्थिरा गृहे ॥ ५७ ॥ गुणा एते यथा लक्ष्म्यास्तथा दोषाः सहस्रशः । इष्टयोगा इवानिष्टयोगाः किं नहि संसृतौ ? ॥ ५८ ॥ यतः - निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः ॥ ५९ ॥ अर्थोऽनर्थप्रदोऽप्येष, तथाऽपि प्रार्थ्यते भृशम् । कृताजीर्णादिदोषोऽपि यथाऽऽहारः शरीरिभिः ॥ ६० ॥ श्रिया प्राप्तपरिक्लेशा, अपीहन्ते श्रियं नराः । वह्नेः स्पृहामिहादध्युर्वह्निदग्धगृहा न किम् ? ॥ ६१ ॥ क्षणगत्वरलक्ष्मीणां कृतेऽनेकभवस्थिरम् । नाशयन्ति जडाः प्रेम, पादशुद्ध्यै यथाऽमृतम् ॥ ६२ ॥ श्रियाऽनृपेन्द्रजालिन्या, मालिन्याऽऽकुलचेतसः । भ्रातृभिः शत्रुभिरिव युध्यन्ते पुरुषा रुषा ॥ ६३ ॥ tional For Private & Personal Use Only %%%%% •ww.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy