SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ यद्यद्गूढसमस्यादि, नराः परिणिनीषवः । बहवोऽपि तदाऽप्राक्षुस्तत्तन्मच विवेद सा ॥ ३२ ॥ अथान्यदा स्फुरद्गर्वा, सर्वान् पण्डितमानवान् । मृगाक्षी श्लोकमप्राक्षीत्साक्षीकृत्य नृपं यथा ॥३३॥ गङ्गायां दीयते दानमेकचित्तेन भाविना । दाताऽहो नरकं याति, प्रतिग्राही न जीवति ॥ ३४॥ । नास्यार्थ कोऽपि जानाति, ज्ञानातिशयवर्जितः। श्लोक आबालगोपालं, ख्यातो जातो जने ततः ॥३५॥ धन्यो लिखित्वा श्लोकार्थ, भूर्जे चैकां प्रहेलिकाम् । पाणीग्रहैषी प्राहैषीत्साऽप्यथैवमवाचयत् ॥ ३६॥ मीनो लाता गलो देयं, कन्ये! दाताऽत्र धीवरः । फलं यजायते तत्र, तयोस्तद्विदितं जने ॥ ३७॥ एकः श्लोको मदुक्तोऽपि, त्वया ज्ञेयोऽयमर्थतः। प्रहेलिकाब्जिनीकेलिवरले! सरले यथा ॥ ३८॥ न लगेन्नागनारङ्गे, निम्बतुम्बे पुनर्लगेत् । लगत्युक्ते लगेन्नैव, मा मेत्युक्ते पुनर्लगेत् ॥ ३९ ॥ इति तज्ज्ञापितेन वश्लोकार्थेन चमत्कृता । चित्ते कन्याऽथ धन्यात्मश्लोकवाच्यं व्यचिन्तयत् ॥ ४०॥3 न विवेद परं वेदागमस्येव जनङ्गमी । अर्थ धन्योक्तवृत्तस्य, सा धीमत्यपि किञ्चन ॥ ४१॥ १ हंसि । Jain Education Intel For Private Personal Use Only
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy