________________
दानक०
स०
॥४५॥
नैकैर्लोककृतैः क्षोभैः, क्षोभितोऽपि न चुक्षुभे । गीतलीनो मृगवातो, योगीव ध्यानलग्नहृत् ॥ २२ ॥ द्रगमध्येन धन्योऽथ, प्राप मापस्य संसदम् । अन्वीयमानः सारङ्गैः, सरङ्गैर्नागरैरपि ॥ २३ ॥ एतत्किमेतत्किमिति, पार्थिवादिषु वादिषु । जहार हरिणीकण्ठपीठाद्धारमुदारधीः ॥ २४ ॥ अहो गीतकलादाक्ष्यमहो धैर्यमहो महः । अहो सौभाग्यभङ्ग्यस्येत्याश्चर्यरससंभृतैः ॥ २५ ॥ कन्याऽथ पार्थिवामात्यैः, सानन्दमभिनन्दिता । अक्षेपं सा निचिक्षेप, धन्यकण्ठे वरस्रजम् ॥ २६ ॥
अर्थतोयुग्मम् ॥ पूर्णप्रतिज्ञा राज्ञाऽथ, कन्या धन्याय सा ददे । शुभलग्ने तयोर्जातः, पाणिग्रहमहोत्सवः ॥ २७ ॥ दिनानि कतिचित्तत्र, चरित्रैश्चित्तचित्रकृत् । धानसारिः पुरे तस्थौ, श्रीजितारिनृपाग्रहात् ॥ २८ ॥ अथात्रैवाभवन्मत्रिपुत्री नाम्ना सरखती । सरस्वतीव सर्वखं, विद्यानां विदुषी हि या ॥ २९ ॥ प्रहेलिकासु सर्वासु, गूढप्रश्नोत्तरेषु च । समस्यापूरणे चास्या, नालस्यं प्रतिभाऽभजत् ॥ ३०॥ यदुक्तं नावबुध्येऽहं, मदुक्तं वेत्ति योऽथवा । स एव मे विवोढा स्यात् , प्रतिज्ञातवतीति सा ॥३१॥
॥४५॥
RAM
Jain Education International
For Private & Personel Use Only
G
urjainelibrary.org