________________
EUSKA
गीतगानं विसृज्याथ, कन्याऽवसथमाययौ । अवादीच नृपं तात!, प्रतिज्ञामिति मे शृणु ॥ ११ ॥ खगीतकलयाऽऽकृष्य, प्रहृष्यन्मानसां मृगीम् । हारं यो मे ग्रहीताऽरं, परिणेता स एव माम् ॥ १२ तस्याः सन्धा प्रसिद्धाऽसौ, सर्वत्र नगरेऽभवत् । प्रथते ह्यद्भुता वार्ता, तैलबिन्दुरिवाम्बुनि ॥ १३ ॥ अथो जितारिसूसन्धां, धानसारिर्निशम्य ताम् । सभां प्राप महीपस्य, पश्यन् पौरजनश्रियम् ॥ १४॥ उवाच च महीनाथ!, गीताकृष्टापि चेन्मृगी । त्रस्ताऽन्यत्र प्रयात्येषाऽद्भुता गीतकला हि का?॥ १५॥ मृदङ्गभेरीभाङ्कारैरत्रस्ता जनसङ्कुले । आयाति चेन्मृगी गीताकृष्टा गीतकला हि सा ॥ १६ ॥ दृष्ट्वा तमद्भुताकारं, तच्चातुर्यचमत्कृतः । तन्मृग्यानयने राजा, हृष्टो धन्यं न्ययुत सः॥ १७ ॥
वीणामादाय धन्योऽपि, गन्धर्वपरिवारितः । प्राप्तस्तत्र वने गीतं, गीतवान् मधुरखरम् ॥ १८॥ मलयप्राप्तेन गीतेन, तदाऽऽकृष्टा, मृगाङ्गनाः। काननान्तर्निवासिन्यो, धन्योपान्तमुपाययुः ॥ १९ ॥
हारालङ्कतकण्ठापि, मृगी गीतवशीकृता । धन्यस्य पुरतस्तस्थौ, प्रियेव हृदयेशितः॥२०॥ गायन्नेव ततोऽचालीद्धन्यो नगरसंमुखम् । इन्द्रजालकलाशाली, लोकैरिव मृगैः समम् ॥ २१ ॥
RARAA%*
*%%
Jain Education
For Private & Personel Use Only
I
mjainelibrary.org