SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ दानक. ॥४४॥ SERCHASRACAX अथ सप्तमः पल्लवः अथ दध्यौ धियां धाम, धन्यःप्रागिव बान्धवाः । मा कार्युः पुनरप्येते, चित्तमप्रीतिचुम्बितम् ॥ १॥ अतः सत्वरमन्यत्र, यामि कामितनीवृतम्।भालयित्वाऽथ तान् राज्ञे, पुनर्मा दण्डनाऽस्त्विति ॥२॥ युग्मम् | ततः सोऽश्वान् गजान् ग्रामान् , सोदरेभ्यो ददौ मुदा । गृहसारं तथा सर्वं, जनकाय समार्पयत् ॥३॥ ममेव मत्कुटुम्बस्य, चिन्ता कार्येति भूपतिम् । निगद्यापृच्छय चाचालीद्धन्यो राजगृहं प्रति ॥४॥ पत्नीद्वययुतः सारपरीवारवृतस्ततः । दिनैः कतिपयैराप, मार्गे लक्ष्मीपुरं पुरम् ॥ ५॥ जितारिर्नृपतिस्तत्र, सर्वक्षत्रशिरोमणिः । क्षमात्यागोद्यते यत्र, शत्रवोऽपि तथाऽभवन् ॥ ६॥ तस्य गीतकलानाम्नी, सुता गीतकलानिधिः । साऽन्यदा क्रीडयोद्याने, सखीभिः सङ्गता गता ॥७॥ लीलान्दोलजलक्रीडापुष्पावचयकारिणी । साऽगायन्मधुरं गीतं, ग्रामरागमनोहरम् ॥ ८॥ गीतलीनास्ततस्तस्थुः, परितस्तां मृगाङ्गनाः । नारीमद्भुतलावण्यामिव कामुकदृष्टयः ॥९॥ । तदैकस्याः कुरङ्गाक्षी, कुरङ्ग्याः कण्ठकन्दले । कौतुकान् मुमुचे हारं, सा च सारङ्गिकाऽनशत् ॥१०॥ ॥४४॥ For Private & Personel Use Only Mainelibrary.oro
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy