Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ धन्योऽपि स्वीयमश्वीयं, पादातं हास्तिकं तथा । संमील्य मापसैन्येन, सहाहवमतन्तनीत् ॥ १८५॥ आपतत्पार्थिवानीकं, गर्जद्गजतुरङ्गमम् । धन्यः पराङ्मुखं चक्रे, सरित्पूरमिवाचलः ॥ १८६॥ स्वसैन्यदैन्यमालोक्य, रुष्टः पुष्टबलो नृपः। स्वयं स्मयं श्रयंश्चित्ते, धन्यं जेतुं प्रचेलिवान् ॥ १८७॥ वेश्मरक्षां विधायाथ, पृथ्वीनाथस्य संमुखम् । धन्यः प्रतस्थे प्रारब्ध-समरोऽसमरोषतः ॥ १८८॥ अथाकुलाः कुलामात्या, मा त्याक्षीः खप्रतिष्ठितिम् । देव ! सेवकयुद्धेनेत्यवनीपं व्यजिज्ञपन् ॥ १८९॥ देव ! धन्यः खजामाता, मा तावद्धन्यतामसौ । नाथ सार्थपतावस्मिन्, हते शौर्य यशोऽपि ते ॥ १९०॥ अयं स्वयं त्वया नीतो, वृद्धिं न च्छेदमर्हति । यद्दविषवृक्षोऽपि, न च्छिद्येत खरोपितः ॥ १९१॥ न जामातुः प्रमाथाय, नाथायं युज्यते रणः। लकुटं खकुटुम्बस्य, प्रहाराय विभर्ति कः? ॥ १९२॥ कम्पपात्री भवेद्धात्री, पाथोनाथोऽपि शुष्यति । तथापि कुपथाध्वन्यो, धन्यो जातु न जायते ॥ १९३॥ रुद्धाः क्रुद्धात्मनेवासां, साधुनाप्यधुनाऽमुना। यद्भर्तृप्रमुखास्तत्र, हेतुः कोऽपि भविष्यति ॥ १९४ ॥ प्रादुष्कारिष्यते गूढोऽप्येष बुद्धिविशेषतः । अदृश्यं हि किमस्माकं, मत्रिणां शास्त्रचक्षुषाम् ? ॥ १९५॥ ॥५॥ Jain Education For Private & Personel Use Only (AMw.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140