________________
धन्योऽपि स्वीयमश्वीयं, पादातं हास्तिकं तथा । संमील्य मापसैन्येन, सहाहवमतन्तनीत् ॥ १८५॥ आपतत्पार्थिवानीकं, गर्जद्गजतुरङ्गमम् । धन्यः पराङ्मुखं चक्रे, सरित्पूरमिवाचलः ॥ १८६॥ स्वसैन्यदैन्यमालोक्य, रुष्टः पुष्टबलो नृपः। स्वयं स्मयं श्रयंश्चित्ते, धन्यं जेतुं प्रचेलिवान् ॥ १८७॥ वेश्मरक्षां विधायाथ, पृथ्वीनाथस्य संमुखम् । धन्यः प्रतस्थे प्रारब्ध-समरोऽसमरोषतः ॥ १८८॥ अथाकुलाः कुलामात्या, मा त्याक्षीः खप्रतिष्ठितिम् । देव ! सेवकयुद्धेनेत्यवनीपं व्यजिज्ञपन् ॥ १८९॥ देव ! धन्यः खजामाता, मा तावद्धन्यतामसौ । नाथ सार्थपतावस्मिन्, हते शौर्य यशोऽपि ते ॥ १९०॥ अयं स्वयं त्वया नीतो, वृद्धिं न च्छेदमर्हति । यद्दविषवृक्षोऽपि, न च्छिद्येत खरोपितः ॥ १९१॥ न जामातुः प्रमाथाय, नाथायं युज्यते रणः। लकुटं खकुटुम्बस्य, प्रहाराय विभर्ति कः? ॥ १९२॥ कम्पपात्री भवेद्धात्री, पाथोनाथोऽपि शुष्यति । तथापि कुपथाध्वन्यो, धन्यो जातु न जायते ॥ १९३॥ रुद्धाः क्रुद्धात्मनेवासां, साधुनाप्यधुनाऽमुना। यद्भर्तृप्रमुखास्तत्र, हेतुः कोऽपि भविष्यति ॥ १९४ ॥ प्रादुष्कारिष्यते गूढोऽप्येष बुद्धिविशेषतः । अदृश्यं हि किमस्माकं, मत्रिणां शास्त्रचक्षुषाम् ? ॥ १९५॥ ॥५॥
Jain Education
For Private & Personel Use Only
(AMw.jainelibrary.org