SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प०प० दानक० ॥४१॥ किंवा जीवन्त एवामी, वामीभूतधियामुना । कारागारान्तरे क्षिप्तास्तत्संभालय भूप! तान् ॥१७५ ॥ धन्यरुद्धं कुटुम्ब नः, कृपासञ्चय ! मोचय । गजात्तं त्याजयेत् सिंहादन्यो वन्योऽत्र कः शशम् ? ॥१७६ निर्धनानामनाथानां, पीडितानां नियोगिभिः । वैरिभिश्चाभिभूतानां, सर्वेषां शरणं नृपः ॥ १७७॥ | श्रुत्वा प्राप्र रुषं भूपादयोऽथ प्रेष्य प्ररुषम् । धन्यायाज्ञापयन्नेवमन्यायस्तव नोचितः॥ १७८॥ मुञ्च वैदेशिकान् सर्वान्, गर्वान्मार्ग किमुज्झसि? ।सन्तः कण्ठगतप्राणा, अप्यकृत्यं न कुर्वते ॥ १७९ है धन्योऽपि पूरुषं प्राह, नाहमाहन्मि सत्पथम् । प्रत्यूषाभ्युदितः पूषा, लोकालोकं भनक्ति किम् ? ॥१८० जातु संपातुकः स्यां चेदुत्पथे तद्रुणद्धि कः? । चलिते चक्रिणश्चक्रे, कश्चक्रे रोधनं पुरा? ॥१८१ ॥ भूपोऽत्र तप्तिकर्ता चेदमुमप्यस्मि शास्मि तत् । लक्षानीकस्य जेताहं, शतानीकस्य का कथा ? ॥१८२॥ ॥ विशेषकम् ॥ पुरुषः सरुषस्तस्य, वाचः काश्चन गर्विताः । श्रुत्वा गत्वा च नत्वा च, भूपाय प्राह सत्वरम् ॥ १८३ ॥ तद्गर्ववचनाकुद्धो, राजा युद्धोद्यतं तदा। निजानीकं शतानीकः, प्राहिणोद्धन्यमन्दिरे ॥ १८४ ॥ ॥४१॥ Jain Education International For Private & Personel Use Only jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy