SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education In स्थापितास्तेऽथ गेहान्तर्देहान्तः सद्गुणा इव । वस्त्राभरणताम्बूलैः, सत्कृत्यानेन भक्तितः ॥ १६५ ॥ एषां योषात्रयं द्वाःस्थैः, प्रविशद्वारि वारितम् । नगैरिव सरिद्वार, परितश्चिरमभ्रमत् ॥ १६६ ॥ तत्र याममवस्थाय, दुरवस्था ययुः पुनः । सायमायतशोकार्त्तास्तास्तटाकतटीकुटीः ॥ १६७ ॥ उर्वि ! कुर्विष्टमस्माकं, मातः पातकृतेऽधुना । ददख विवरं दुःखविवशाः प्रविशाम यत् ॥ १६८ ॥ | विलापानिति कुर्वाणा, इलालुठनलालसाः । शतयामामिवानैषु - स्त्रियामामपि तास्तदा ॥ १६९ ॥ अथ ताः श्लथताप्राप्त लज्जाः सज्जाः कलेः कृतौ । सभां प्रापुर्महीपस्य, कस्य हि क्षान्तिरापदि ? १७० दैवेन गमिता दौःस्थ्यं तव द्रङ्गमिता वयम् । सरः खनामो धन्यस्य, सुखनामोज्झिता नृप ! ॥ १७१ ॥ | इत्युक्त्वा तत्र दानादि - कुटुम्बस्थापनावधि । वृत्तान्तमूचिरे सर्वमचिरेण नृपाय ताः ॥ १७२ ॥ युग्मम् ॥ देवें ! सेवकवात्सल्या - मृतकुल्याप्रवाहतः । अस्मन्मनोवनोत्सृप्तं, दाहमाहन्तुमर्हसि ॥ १७३ ॥ | अस्मद्देवरदाराणा-ममुना मोहतोऽधुना । पञ्चतामापिताः पञ्च, किं भर्तृश्वशुरादयः १ ॥ १७४ ॥ १ पञ्चम्यस्मद्बहुवचनमामव्. २ देवस्तु नृपतौ तोयदे सुरे. For Private & Personal Use Only ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy