SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ४२ ॥ Jain Education In I एवं निगद्य सद्यस्ते, प्राहुराहूय योषितः । किंकुलाः ? किंधना ? यूयं किंग्रामा ? ब्रूत सूनृतम् ॥ १९६ ॥ | एवमुक्ता विमुक्ताश्रु-जला निजकुलादिकम् । सर्वं वृत्तान्तमूचुस्ता - स्तटाकखननावधिम् ॥ १९७ ॥ प्रतिभायत्रिणः श्रुत्वा, तदुक्तमथ मन्त्रिणः । अमन्त्रयन्त विज्ञातवस्तुतत्वा इदं मिथः ॥ १९८ ॥ योऽत्यन्तं भाग्यवानाभिरभ्यधायि खदेवरः । धन्याभिधः स एवासौ प्रोक्तसंवाददर्शनात् ॥ १९९ ॥ तत्रदानादिकां मायां, निर्मायानेन धीमता । स्वजायाः स्थापिताः पूर्व, पश्चात्पित्रादयोऽपि च ॥ २००॥ विचार्यैवमभाषन्त, धीसखा योषितः प्रति । कथं धन्यो भवदेवा, नृदेवैरपि लक्ष्यते ॥ २०९ ॥ योषास्तोषाश्रितखान्तास्त्यक्तरोषा अथोचिरे । पद्मासद्मानि पद्मानि पादयोस्तस्य लक्षणम् ॥ २०२ ॥ ततस्तत्पादपद्मस्थ- पद्मलक्ष्मदिदृक्षया । ताभिर्भूपप्रधानानि, सार्धं धन्यान्तमैयरुः ॥ २०३ ॥ | भ्रातुर्जायाः समायाताः, स मायावी नमोऽकरोत् । जगौ च कातरखान्ता, मातरः किमिहागताः ? २०४ दृष्ट्वोपलक्ष्य चैनं ता, नन्तारं व्याहरन्निति । आयासयसि मायाभिः किमस्मान् ? देवरोसि यत् ॥२०५ स प्राह हृद्ये! हृद्येष, युष्माकं को भ्रमोऽभवत् ? । स्युर्मन्ददृष्टयो यद्वा, गर्त्तान्तर्जातु पातुकाः ॥ २०६ For Private & Personal Use Only प० प० ६ ॥ ४२ ॥ ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy