Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 87
________________ Jain Education वणिग्भिर्भणितं नायमन्यायमतनोत्पुरा । ख्यात आबालभूपालं, परनारीसहोदरः ॥ १४३ ॥ अलीकं भाषते नैवाप्रत्यनीको भवानपि । किंकर्तव्यतया मूढा, भद्र ! किं कुर्महे ? वयम् ॥ १४४ ॥ तथापि कथयिष्यामो, धन्याय न्यायवेधसे । साम्प्रतं साम्प्रतं यत्स्याद्भद्र ! भद्रङ्करं च ते ॥ १४५ ॥ वणिजः प्रणिगद्येति, गता धन्यस्य वेश्मनि । चिरं गिरं विमृश्याहुः, सर्वेऽपि भयवेपिताः ॥ १४६ ॥ सूरोत्सङ्गे तमःपूरो, रेणुच्छालो महार्णवे । तापप्रथा यथा नेन्दौ, त्वय्यनीतिस्तथा नहि ॥ १४७ ॥ पश्चिमायां समायाया - त्कदाचिदुदयं रविः । भ्रुवोऽप्यध्रुवतां दध्या-त्कल्पान्तपवनेरितः ॥ १४८ ॥ मेरुर्नमेरुवत्कम्प्रः, सागरोऽपि मरोः समः । जायेत जातु वातोऽपि सञ्जतस्थिरतोऽथवा ॥ १४९ ॥ कदाचिदनलो वापि, शीतलो भूतले भवेत् । न पुनः कथमप्येष, लोभविक्षोभवान् भवान् ॥ १५० ॥ विज्ञप्यसे तथाप्येतद्धनसारोपरोधतः । रोधतोऽस्य वधूं मुञ्च, सविचारोऽसि बोधतः ॥ १५१ ॥ तेषामिति वचः श्रुत्वा स तन्वानः स्मितं मनाक् । अनाकर्णितकेनान्यां, वार्तां कर्तुं प्रचक्रमे ॥१५२॥ ज्ञात्वा धन्यस्य चेतस्ते, चतुरा इङ्गितादिभिः । उत्थाय स्वगृहान् जग्मुः, परार्थे क्लिश्यते हि कः ? ॥१५३॥ For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140