Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 61
________________ RA%AA-%ASAछ प्रसत्तिपात्रं तस्यासीन्मगधानामधीशितुः । श्रेष्ठी कुसुमपालाख्यः, कल्पसाल इवार्थिनाम् ॥ १५॥ अथ तस्य महेभ्यस्य, जीर्णशीर्णतरूत्करम् । उद्यानमासदद्धन्यः, श्रान्तः सायं स भाग्यवान् ॥ १६ ॥ वसन्तेनेव तेनेदमागतेन वनं तदा । शुष्कभूरुहमप्यासीत्सपुष्पफलपल्लवम् ॥ १७ ॥ तत्प्रापत्पुष्पपालोऽपि, लोकेनोक्ते विलोकैकः । पश्यति स्म प्रगेऽत्यन्तं, विस्मितो वनसम्पदम् ॥ १८॥ विश्वविश्वाद्भुताभङ्गभाग्यसौभाग्यभाजनम् । धन्यश्च दुरितत्रासी, तत्रासीनोऽमुनैक्ष्यत ॥ १९ ॥ गुणवृद्धिकृदाख्यातसिद्धं भासुरविग्रहम् । धन्यं सल्लक्षणं वीक्ष्य, स हृष्टः श्रेष्ठिशाब्दिकः ॥२०॥ नूनमस्यानुभावेन, वनं पल्लवितं मम । किं सैन्धवजलोल्लासो, विना कैरवबान्धवम् ॥ २१ ॥ चिन्तयित्वेति चित्तान्तश्चतुरोऽनातुरेण सः । धन्येन सममालापसुखानि क्षणमन्त्रभूत् ॥२२॥ युग्मम् ॥ ततः स गाढमागृह्य, जगृहे खगृहेऽमुना । माणिक्यं यत्र तत्रापि, स्वगुणैरर्घमश्नुते ॥ २३ ॥ १ कुसुमपालः । २ भविष्यन्यां णकच् । ३ श्रेष्ठीति शब्दो वर्णोऽस्येति श्रेष्ठिशाब्दिकः । पक्षे गुणादिका व्याकरणरूढाः संज्ञाः । शान्दिको वैयाकरणः। ४ चन्द्रम् । -... Jain EducatioriaNE For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140