________________
RA%AA-%ASAछ
प्रसत्तिपात्रं तस्यासीन्मगधानामधीशितुः । श्रेष्ठी कुसुमपालाख्यः, कल्पसाल इवार्थिनाम् ॥ १५॥ अथ तस्य महेभ्यस्य, जीर्णशीर्णतरूत्करम् । उद्यानमासदद्धन्यः, श्रान्तः सायं स भाग्यवान् ॥ १६ ॥ वसन्तेनेव तेनेदमागतेन वनं तदा । शुष्कभूरुहमप्यासीत्सपुष्पफलपल्लवम् ॥ १७ ॥ तत्प्रापत्पुष्पपालोऽपि, लोकेनोक्ते विलोकैकः । पश्यति स्म प्रगेऽत्यन्तं, विस्मितो वनसम्पदम् ॥ १८॥ विश्वविश्वाद्भुताभङ्गभाग्यसौभाग्यभाजनम् । धन्यश्च दुरितत्रासी, तत्रासीनोऽमुनैक्ष्यत ॥ १९ ॥ गुणवृद्धिकृदाख्यातसिद्धं भासुरविग्रहम् । धन्यं सल्लक्षणं वीक्ष्य, स हृष्टः श्रेष्ठिशाब्दिकः ॥२०॥ नूनमस्यानुभावेन, वनं पल्लवितं मम । किं सैन्धवजलोल्लासो, विना कैरवबान्धवम् ॥ २१ ॥ चिन्तयित्वेति चित्तान्तश्चतुरोऽनातुरेण सः । धन्येन सममालापसुखानि क्षणमन्त्रभूत् ॥२२॥ युग्मम् ॥ ततः स गाढमागृह्य, जगृहे खगृहेऽमुना । माणिक्यं यत्र तत्रापि, स्वगुणैरर्घमश्नुते ॥ २३ ॥
१ कुसुमपालः । २ भविष्यन्यां णकच् । ३ श्रेष्ठीति शब्दो वर्णोऽस्येति श्रेष्ठिशाब्दिकः । पक्षे गुणादिका व्याकरणरूढाः संज्ञाः । शान्दिको वैयाकरणः। ४ चन्द्रम् ।
-...
Jain EducatioriaNE
For Private & Personel Use Only
www.jainelibrary.org