________________
दानक०
॥२६॥
SASRHARSAGAESS
कथं भुवो यस्य बुधोऽपि वक्तुं, शक्नोत्वऽशेष गरिमातिशेषम् । श्रीवर्धमानस्त्रिजगरप्रभुमिपूपुजत्खस्य पदारविन्दैः ॥७॥ यत्र ग्रहानुच्चगृहा निनादैर्ध्वजाग्रजाग्रन्मणिकिङ्किणीनाम् ।
पृच्छन्ति मन्ये नगरं किमीग्, दृष्टं भुवि क्वापि रमाभिरामम् ? ॥८॥ सप्तभिः कुलकम् ॥ रक्षन्नष्टादशश्रेणीर्गुणश्रेणीरिवाभवत् । न्यायसौधापनि श्रेणिः, श्रेणिकस्तत्र भूपतिः ॥ ९॥ यस्य कीर्तिप्रतापाभ्यां, रेजिरे दिग्मृगीदृशः । सितारुणाभ्यां श्रीखण्डकुडमाभ्यामिवार्चिताः ॥ १० ॥ छिन्ना यस्य कृपाणेन, रेजिरे समराजिरे। दन्तावलघटादन्ता, यशोवृक्षाङ्कुरोपमाः ॥ ११ ॥ यस्याभयकुमाराख्ये, पुत्रे मत्रिपदश्रिया । चामीकर इव भेजे, भृशं सौरभसम्पदा ॥ १२ ॥ सम्यक्त्वं क्षायिकमपि, यस्य क्षितिपतेरहो । सौख्यमक्षायिकं दातुं, प्रभविष्यति मोक्षजम् ॥ १३ ॥ वीरं खर्णयवानां चाष्टोत्तरेण शतेन यः। प्रत्यहं भक्तितोऽभ्यर्चन्नर्हन् भावी भवान्तरे॥१४॥षभिः कुलकम् ॥ । १ राजगृहस्य । २ यां भुवम् ।
॥२६॥
Jain Education
For Private
Personel Use Only
hainelibrary.org