________________
दानक
॥२७॥
अभ्यङ्गोवर्तनस्नानभोजनाङ्गविलेपनैः । श्रेष्ठी सुखासनाद्यैश्चोपचारैरुपचर्य तम् ॥ २४ ॥ जगौ सगौरवं सौम्य!, गुणैस्ते गौरवंशता । ज्ञातैव मे यदाचारः, कुलमाख्याति देहिनाम् ॥ २५ ॥ फलश्रीदायिने तुभ्यं, जीवनस्य वनस्य मे । कुसुमश्रीकनी दत्त्वाऽऽनृण्यमिच्छामि किञ्चन ॥ २६ ॥ पाणौ कुरु तदेतां मे, तनयां कुसुमश्रियम् । पथ्यां तथ्यामिमां श्रेष्ठिवाचं धन्योऽप्यमन्यत ॥ २७॥
चतुर्भिः कलापकम् ॥ ततो धन्यो धनैर्धाम, लात्वाऽन्यत्तत्र तस्थिवान् । स्थापितोऽप्यादरेण खागारे मानधनोऽमुना ॥२८॥ यतः-मित्रस्याऽप्यपरस्यात्र, समीपे स्थितिमावहन् । कलावानपि निःश्रीको, जायते लघुतास्पदम् ॥२९॥ चिन्तारत्नार्पितैव्यैर्ववृधे स यथा यथा । तथा तथाश्रितो लोकैः, फलिट्ठम इवाण्डजैः ॥ ३०॥ अथोद्वाहाहवस्तूनां, सामन्यामल्पकैर्दिनैः। संपन्नायां तिथौ शस्ते, प्राप्ते भूरिमहोत्सवैः ॥ ३१ ॥ शिवः शिवामिवाना, केशवः कमलामिव । श्रेष्ठी दत्तामुपायंस्त, स कन्यां कुसुमश्रियम् ॥३२॥ युग्मम्॥ इतो मालवभूपालं, रणोत्तालमबालधीः । आकर्ष्याभ्यर्णमायातं, श्रेणिकोऽभयमैक्षत ॥ ३३ ॥
in Educatan
mana
For Private & Personel Use Only
law.jainelibrary.org