Book Title: Chaturvinshati Jinanand Stuti
Author(s): Hiralal R Kapadia
Publisher: Agamoday Samiti
View full book text
________________
समास-विग्रहः
२०३
४२-ऋभूणां सदः ऋभु० 'तत्पुरुषः । शैलानां राजानः शैल. 'तत्पुरुषः', अंही एव शैलराजाः अंहि० 'कर्मधारयः', तान् अहि० । अनन्तश्वासौ महिमा च अनन्त० 'कर्मधारयः । अनन्तमहिम्नः प्रभवो यस्याः सा अनन्त 'बहुव्रीहिः', तां अनन्त । आप्तानां निकरः आप्त. 'तत्पुरुषः', तं आप्त। राकायाः राजा राका० 'तत्पुरुषः', राकाराजवद् आननं यस्य स राका० 'बहुव्रीहिः', तं राका० । न हिमा अहिमा ' नञ्तत्पुरुषः', अहिमा प्रभा यस्य सः अहिम ० 'बहुव्रीहिः', अहिमप्रभवद् वामः कायो यस्य सः अहिम० 'बहुव्रीहिः', तं अहिम० ॥
४३--निर्वाणस्य नितिः निर्वाण. 'तत्पुरुषः, निर्वाणनिति पुष्यन्तीति निर्वाण. 'उपपद 'समासः, तेषां निर्वाण । प्रचुरश्चासौ प्रमादश्च प्रचुर० 'कर्मधारयः', प्रचुरप्रमादस्य मारो यस्मिन् स प्रचुर० 'बहुव्रीहिः', तं प्रचुर० । भव एव अरिः भवा० 'कर्मधारयः,' भवारेः हरियस्मात् स भवा० 'बहुव्रीहिः', तेन भवा० । समा चासौ मा च सम० 'कर्मधा. रयः', सममायाः आगमो यस्मिन् स सम० 'बहुव्रीहिः', तेन सम० । विद्वांश्चासौ जनश्च विद० 'कर्मधारयः।। आरम्भ एव वारि आर० कर्मधारयः। आरम्भवारिणि हरिः आर० 'तत्पुरुषः, तेन आर०॥
४४--सारा चासौ अतुला च सारा० 'कर्मधारयः, सारातुला आमा यस्य स सारा० 'बहुव्रीहिः', तं सारा० । न विद्यते मलो यस्यां सा अमला 'बहुव्रीहिः । यतिरेव मा यति. 'कर्मधारयः, यतिमया नवीनः यति. 'तत्पुरुषः । अमला आयतिर्यस्य तद् अमला० 'बहुव्रीहिः', तद् अमला० ॥
४५--भ्रमणेन अर्जितानि भ्रम० ' तत्पुरुषः । पर्जन्याश्च दानवाश्च पर्जन्य. 'इतरेतरद्वन्द्वः', सुष्टु पूज्यः सुपूज्यः 'प्रादि 'समासः, पर्जन्यदानवानां सुपूज्यः पर्जन्य० 'तत्पुरुषः', तत्सं० पर्जन्य० । सुष्टु तानवानि सुता० 'प्रादि समासः, तानि सुता० । तव नाम त्वन्नाम 'तत्पुरुषः । पर्जन्यवद् दानं यस्य स पर्जन्य० 'बहुव्रीहिः', तत्सं० पर्जन्य० । वसुपूज्यस्य सुतः वसु० ' तत्पुरुषः, तत्सं० वसु० । न नवानि अनवानि ' नञ्तत्पुरुषः ॥
४६-ध्यानस्य अन्तरं ध्याना० 'तत्पुरुषः', तस्मिन् ध्याना० । मरणं ददातीति मरणदः ' उपपद 'समासः, मरणदश्वासौ अमितश्च मरण० 'कर्मधारयः। मरणदामितश्चासौ मोहश्च मरण० 'कर्मधारयः, मरणदामितमोहस्य नाशो यस्याः सा मरण 'बहुव्रीहिः', तां मरण। दत्तं इहितं यया सा दत्ते० 'बहुव्रीहिः', तां दत्तेः । उपकारस्य कारिणी उप० 'तत्पुरुषः,, उपकारकारिणी वाग् यस्याः सा उप० 'बहुव्रीहिः', तां उप० । यमश्च आमश्च रणश्च यम० 'इतरेतरद्वन्द्वः', यमामरणान् द्यतीति यमा० 'उपपद 'समासः, तां यमा० । मोहनस्य आशा मोह. 'तत्पुरुषः', इता मोहनाशा यया सा इत० 'बहुव्रीहि, तां इत० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400