Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ २४४ ॥
Jain Education Intera
दृष्टिरेव इति द्वात्रिंशत् ।। १५७४ ॥ इह मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं स्यात्, तथा चाहनिस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । वीरवयणांमे एए बत्तीसं सावया भणिया ॥१५७५ ॥ तथा एते चैव विभज्यमानाः सप्तचत्वारिंशदधिकं श्रमणोपासकशतं स्यात् कथं १, करणकारणानुमतीनां मनोवाक्कायैः सह संयोगे सत्येककद्विकत्रिकयोगे सप्त सप्तकाः स्युः, तथाहि प्राणातिपातं न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन ६ मनसा वाचा कायेन च ७ एते करणेन १ एवं कारणेन २ अनुमत्या ३ करण कारणाभ्यां ४ करणानुमतिभ्यां ५ कारणानुमतिभ्यां ६ करणकारणानुमतिभिरपि ७, एवमेते सप्त सप्तकमङ्गकानामेकोनपञ्चाशद् भवन्ति, एकोनपञ्चाशत्तमोऽयं विकल्पः- प्राणातिपातं न करोति न कारयति कुर्वन्तमन्यं नानुजानाति मनसा वाचा कायेनेतिस्वरूपः प्रतिमाप्रतिपन्नस्य श्राद्धस्य स्यात् एषां त्रिकालविषयता चाडतीतस्य निन्दया साम्प्रतिकस्य संवरणेनानागतस्य प्रत्याख्यानेन, एवमे कोनपञ्चाशत्कालत्रय गुणिताः सप्तचत्वारिंशदधिकं शतं ।। १५७५ ।।
सीयालं भंगसयं गिद्दिपश्च्चक्खाण भेयपरिमाणं । तं च विहिणा इमेणं भावेयत्वं पयतेणं ॥ १ ॥ तिन्नि तिया तिन्नि दुया तिनिक्किका यहुंति जोगे । तिदुकं तिदुइक्कं तिदुएगं चैव करणाई || २ || पढमे लब्भइ एगो सेसेसु परसु तिय तिय तियंति । दो नव तिय दो नवगा तिगुणिय सीयाल मंगसयं || ३ || स्थापना -
For Private & Personal Use Only
श्रावकधर्मविधिः
नि०गा०
१५७५
॥ २४४ ॥
w.jainelibrary.org
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338