Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आवश्यक - निर्युक्तेरव
चूर्णिः
।। २५५ ।।
Jain Education Inte
उपशब्दः सकदर्थेऽन्तर्भोगे वात उपभोग आहारादेः, परिशब्द आवृत्तौ पुनः पुनरित्यर्थः बहिभोंगे वा, ततः परिभोगो वस्त्रादेः, एतद्विषयं व्रतमुपभोगपरिभोगवतं । तत्र भोजनत उत्सर्गेण निरवद्याहारमोजिना भवितव्यं, अपवादतोऽनन्त कायबहुव्रीविवर्जकेन, कर्म्मतोऽपि निश्वद्य कर्मानुष्ठानयुक्तेन, अशक्तौ अत्यन्तसावद्यत्यागिना । भोजनतो यद्व्रतमुकं तदाश्रित्य सचिवासवाहारथ सचिचाहारः १, सचिचप्रतिबद्धाहारो यथा वृक्षप्रतिबद्धो गुन्दादि पक्कफलानि वा २, अपक्कोषधिभक्षणत्वं प्रतीतं, सचित्तसंमिश्राहार इति पाठान्तरं ३, दुष्पकोषघिमक्षणता दुष्पका :- अस्विन्ना इत्यर्थः ४, तुच्छौषधिभक्षणता तुच्छा असारा मुगफलीप्रभृतयः, अत्र महती विराधनाऽल्पा च तुष्टिः ५, कम्मदानानीत्य सावद्य जीवनोपायाrasपि तेषामुत्कज्ञानावरणीयादि कर्महेतुत्वादादानानि, अङ्गारकरणविक्रयक्रिया १, एवं वन २ शकट ३ भाटक ४ स्कोटन ५ दन्त ६ विष ७ लाक्षा ८ र ९ केशवाणिज्यं १० यन्त्रपीडन ११ निलच्छन १२ दवदापन १३ सरोइदादिशोषण १४ असतीपोषणेपि १५ द्रष्टव्यं प्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवं जातीयानां न पुनः परिगणनं ॥ ७ ॥
अणत्थदंडे चविपन्नत्ते, तं जहा -अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणिवा, तं जहा- कंदष्पे कुक्कुइए मोहरिए संजुत्ता हिगरणे उवभोगपरिभोगाइरेगे ॥ ८ ॥ ( सूत्रम् )
अर्थः- प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनधान्यशरीरपरिजनादिविषयं तदर्थं आरम्भो - भूतोपमर्दोऽर्थदण्डः, अनर्थ:
For Private & Personal Use Only
विरमण
॥ २५५ ॥
w.jainelibrary.org