Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 304
________________ आवश्यकनियुक्तेरव चूर्णिः । ॥ २५२॥ - - स्वदारा:-स्वकलत्रं तस्तेषु वा [ सन्तोषः तं वा ] प्रतिपद्यते, अयमर्थ:-परदारगमनप्रत्याख्याता यावेव परदारशब्दा | पश्चमाणु प्रवर्तते ताभ्य एव निवर्त्तते, स्वदारसन्तुष्टस्तु एकानेकस्वदाव्यतिरिक्ताम्यः सर्वाम्य एव । औदारिकपरदारगमनं-स्त्रयादि-IN| व्रताधि. गमनं, वैक्रियपरदारगमनं-देवाङ्गनागमनं । इत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्त- कार: मपि कालं दिनमासादिकं स्ववशीकता तस्यां गमनं-मैथुनासेवनं इत्वरपरिगृहीतागमनं १, अपरिगृहीता वेश्या अन्यसत्काऽगृहीतमाटिः कुलाङ्गना वाऽनाथा तस्यां गमनं २, अनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा अथवाऽनङ्गक्रीडा समाप्तप्रयोजनस्यापि स्वलिङ्गेन आहायः काष्ठपुस्तकफलमृत्तिकाचादिघटितप्रजननयोंषिदवाच्यप्रदेशासेवनं ३, | स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते, तस्य कन्याफललिप्सया स्नेहसम्बन्धेन वा विवाहकरणं परविवाहकरणं ४, कामा:-शब्दरूपगन्धाः भोगा:-रसस्पर्शास्तेषु तीव्रामिलापोऽत्यन्ततदध्यसायित्वं, तस्माचेदं करोति-समाप्तरतोऽपि योषिन्मुखोपस्थकर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गं मृत इवास्ते महतीवेलां, दन्तनखादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते, योषिदवाच्यदेश वा मृनाति ४ । एतानि इत्वरपरिगृहीतादीनि समाचरभतिचरति चतुर्थाणुव्रतं । तत्राद्यौ द्वौ अतिचारौ स्वदारसन्तुष्टस्य स्यातां नो परदारविवर्जकस्य, शेषा द्वयोरपि ॥ ४ ॥ ___अपरिमियपरिग्गहं समणोवासओ पञ्चक्खाइ इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंच २५२ ॥ - For Private & Personal Use Only a Jain Education Intern w.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338