Book Title: Anusandhan 2004 08 SrNo 29
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
तं विश्वत्रयचित्तचातकचयप्रह्लादने तोयदं श्रीमन्नाभिनराधिराजतनयं कुर्मो मनोवर्त्मनि ॥१॥
पात्रं पुष्टिपटुः पथः पथयिता प्राधान्यहेतुः प्रभुविश्वेऽस्मिन्नयमेव देवतिलको जज्ञे ममाऽहर्निशम् । यं भेजेऽङ्कमिषाद् वृषः शुभगतिर्मत्वेति सल्लक्षणं ध्यायामस्तमशेषदोषविमुखं नित्यं जिनाधीश्वरम् ||२|| पावित्र्येण कटिश्रिया विभुतया वर्यार्जवेणो (णा ) ऽपि यजिग्येऽहं विभुनाऽमुनाऽतिबलिना मत्वेति चिह्नच्छलात् । यं गौगौरव (गौर्गौरव) वानन्यगतिकः शिश्राय विश्वाधिपं दध्मः पद्ममिवाऽलिनः प्रणयिनस्तं तीर्थनाथं हृदि ||३|| अस्मिन् गर्भमुपेयुषि प्रथमतो दृष्टोऽहमस्याऽम्बया लक्ष्मीमेष मयैव विश्वविदितां धत्ते व (च) धन्योद्धुरः । अङ्केऽप्येष बिर्भात शस्तकमले मामेव देवोत्तमः सेवा मेऽस्य घटेत यं वृष इति ध्यात्वाऽऽश्रितस्तं स्तुवे ॥४॥
कुर्वत्या चरणं लसच्चरणया हृद्गोचरे धीमतां
निन्ये पुष्टिमहं महस्विरसया गाढं गवास्यप्रभोः ।
अनुसंधान - २९
तेनाऽमुष्य निषेवणादहमदो भावी कृतज्ञाग्रणीर्ध्यात्वेत्थं भजति स्म लाञ्छनमिषाद् यं गौः स्तुमस्तं जिनम् ॥५॥
शश्वत्संश्रितसर्वमङ्गलमभूद् गात्रं च शक्ति शुभा
मन्युध्वंसविधायिनीय नितमां भालं दलाब्जाद्भुतम् । ऐश्वर्यं गुरु यस्य विश्वविदितं तस्यैव पादाब्जयोः स्थाने मत्स्थितिरित्यकाममभजद् यं गौः स वः श्रेयसे ॥६॥
अस्मादस्मयचित्तवृत्तिसुभगात् सञ्जानया यद्गवा यच्छन्त्या रसमुज्ज्वलं प्रजनितः प्रौढप्रभावानहम् । किं तत् सूत्रितसर्वसम्मदमहं मुञ्चामि मातामहं यस्याऽङ्कं न जहौ वृषः सुखसखं मत्वेति सोऽस्तु श्रिये ||७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110