Book Title: Anusandhan 2004 08 SrNo 29
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ अनुसंधान-२९ स्थानं निर्गतिकस्य मेऽयमुचितो विश्वत्रयीनायकस्तस्थौ यत्क्रमयोवृषोऽङ्कमिषतो ध्यात्वेति वः सोऽवतात् ॥१४॥ गौरस्यैव ममोपभोगसुभगा पुष्णात्यसावेव मां भूयोभिश्चरणैः स्थिती रसवरे हगोचरस्यैव मे । ध्यात्वैवं गतपङ्कमङ्कमभजन्नित्यं यदीयं वृषः पाथोराशिरिवैष रातु भवभीमुक्तः श्रियं मौक्तिकीम् ॥१५॥ यो(या) जाड्याम्बुजभञ्जने द्विपवधूौरस्य विश्वेशितुः सैवैनं जननीव शावमनिशं पुष्णाति पुण्याकृतिः । तेनाऽत्रैव वृषोऽयमु[च्च]सुगतिश्चिह्नच्छलादच्छलं यत्पादौ सृजतेति वारिजभुवा ध्यातं स्तुमस्तं जिनम् ॥१६।। विष्णोर्नीरधिनन्दनी कुमुदिनी नित्यं तुषारत्विषः पौलोमी च बिडौजसः कमलिनी भूच्छायविध्वंसिनः । युक्तोमाऽपि तथा प्रिया वृषधरस्यैवेति तद्वल्लभं यं चक्रे वृषलाञ्छनं जलजभूर्नाथः स वोऽस्तु श्रिये ॥१७॥ लोकेऽहं शिशुनाऽमुना प्रकटितो यूनाऽप्यहं पालितो वृद्धि वार्धकधारिणाऽतिशयतः संप्रापितः सर्वदा । तेन स्यामनृणोऽहमस्य चरणोपास्त्येति जानन् वृषो यत्पादाम्बुजयुग्ममङ्कमिषतो भेजे भजे तं जिनम् ॥१८॥ गोपालस्य गवां द्रुतं दशशती यत्तुण्डकुण्डोद्भवं रम्यं गोरसमत्ति दृगजमहसांमित्रं पिबत्यन्वहम् । तेनैतत्पदयोर्मम स्थितवतो भावी स्वकैः सङ्गमो मत्वा गौरिति यत्क्रमेऽङ्कमिषतस्तस्थौ तमीशं स्तुमः ॥१९॥ [गत्या] येन जिता गतिप्रतिभटा हंसर्षभानेकपास्तन्मध्यात् प्रथमोऽगमत् सुरगृहं वन्यावनीं चाऽन्तिमः । कोप: स्यान्महतां प्रणत्यवधिको मत्वेति मध्योऽश्रयद यत्पादौ ध्वजदम्भतः स जिनपः पुष्णातु वः सम्पदम् ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110